________________
हितीयमिशिका
विरतये। श्रीहरिभद्रसूरिभिरक्षयोपशमात्त्यागपरिणामे तथाऽसति जिनाज्ञाभक्तिसवेगवैकल्यात्,' एतदप्यसदिति । अनेनापरिणामेनापि जिनानाभक्त्यादिनतस्याभिहिता विधेयता स्पष्टा इति न शक्तिलक्षणा न सामग्रीति वाच्य विद्वद्भि। अथ चोच्यते-विद्यते परिणाम. शक्तिश्च, पर न शक्तिस्तादृशी यया पालयितु शक्यते, इति न गृह्यते व्रतादि । तदपि नाल पक्षपरित्राणाय, यतस्तथा। विधधैर्याभावे मुहर्तादिनाप्यनुशीलनीय विरतत्वम् । ततश्च क्रमेण भविष्यति धैर्य तादृश शक्यते पालयितुम् । न ह्यनभ्यस्त शक्यते केनाप्युरोढुमिति गन. शनैरपि गृहीत्वोद्वहन्तु । आपादिते च मनमो दाढयें न किमपि भावि दुष्करम्, तन्न पालनलक्षणा न सामग्रीति । अथ 'न सहचारिण' इत्यपि नैव सम्यग, यतो न सर्वे भवादशोऽविरता , कुर्वन्त्येव यथार्ह व्रतानुष्ठानादि, सहचारिता च यदि तैविधास्यन्ति भवन्त को निपेद्धोत्तमसङ्गत्या च भविष्यति यत्किञ्चनापि, लौकिकैरपि गीयत एव-"सत्सङ्गति कथय कि न करोति पुसा"इति । न रुचितास्ते चेद्भवद्भयोऽवभासिताश्चानहतया, तदा न योग्यता भवता सम्यक्त्वसारहीनत्वात् 'गुणहीणो गुणरयणायरेसु जो कुणइ तुल्लमप्पाण। सुतवस्सिणो अ हीलइ सम्मत्तं कोमल तस्स ॥१॥" [उप० माला] इति वाक्ये तावत्स्वसमानताऽभिमतावपि गितमनर्थवाहुल्य, किं पुनस्तहि हीनतरताभिमतौ तेषा, तन्नैतत्सुन्दर-यन्नास्ति कोऽपि सहचारी। न सन्तु वा सहचारि. णस्तथापि स्वयमुद्यच्छन्तु तथा, यथा भवता साहचर्येण ते यथाहीँ गुणश्रेणिमापादयेयु । न चेज्जानानैरपि भवद्भिरुद्यम्यते, हि ते कि तमु पदेष्टव्य विगेषेण। यदाहुर्धर्मदासगणिपादा.-"को दाही 'उवएस चरणालसयाण दुन्वियड्ढाण । इदस्म देवलोगो न कहिज्जइ • जाणमाणस्स ॥१॥" [उप० ४९०] इति । नैतत् कूटमालम्बनीय,