________________
द्वितीयविगिका
पढमाणस्स सुणमाणस्स अणुपेहमाणस्स सिढिलीभवति परिहायति खिज्जति असुहकम्माणुवधा निरणवधे वा असुहकम्मे भग्गसामत्थे सुहपरिणामेण कडगवढे विवविसे अप्पफले सिमा सुहावणिज्जे सिया अपुणभावे सिआ" [पञ्च०] इत्यादि । ननु तदपि कथमिति चेत्, साधुसमागमादिना । तदपि कथ चेद्, भवितव्यतयेति गृहाण । परं प्राप्त एवासौ भवद्भिरिति न भाव्य तुन्दपरिमृजैरिति नाल परिणामाभावविकल्पोऽपि भवता कुविकल्पपुष्टये कर्मवन्धाद्वा विरतिप्रत्ययिकाद्रक्षणायेति । कुर्वन्तु परिणामाभावेऽपि विरत्यादि, तस्या एव परमभावोत्पादप्रत्यलत्वात् । व्यजित चैतत्-'तम्हा निच्चसईए वहुमाणेणं च अहिगयगुणम्मि। पडिवक्खदुगुछाए परिणइआलोयणेण च ॥१॥ तित्थकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए य एत्थ सया होइ जइयव्व ।।२।। एवमसतो वि इमो जायइ जाओ वि ण पडड कयाइ।" इत्यादौ भवविरहसूरिभिः पञ्चागके । तच्चेत्परिणामोद्भववाञ्छा, तदा प्रवर्त्तन्ता यथाकथञ्चिदपि, भविष्यति चोपरितनोदाहृतवचनानुसारेण प्रवर्तमानानां भवता तत्परिणाम इति कृत विस्तरेण । अथ चोच्येत-'नास्ति शक्तिविरतिकरणायेति चेत् । न तदपि यथास्थित जल्पितम् । यतः सर्वथैव नास्ति शक्तिविरमणे देशतो वा? | आद्ये, मा भवतु साऽभ्यासप्राप्यैव सा यत , ततो गृह णनवणुव्रतानि, प्रतिमा अपि तेषामुद्दहन्तु, पश्चाद्भविष्यति शक्ति । अत एव सूरिमिश्रः प्रत्यपादि-"भावेळणऽत्ताण उवेइ पव्वज्जमेव सो पच्छेति” । न च संयोज्य करावासीनाना भवति गक्त्यस्तिनास्तित्वादिज्ञानम् । करणे चास्य विधेर्न ज्ञायते यदि शक्ति सर्वथा विरमणे; स्थीयते चेद् गार्हस्थ्ये, न तत्सूत्राननुमत, यत आहु -"अहवा गिहत्थभावं उचियत्त, अप्पणो णाउ"ति । भविष्यति च-प्रेत्यैतदर्हा शक्तिः, अभ्यासस्य