________________
द्वितीयविगिका
स्थादविरतिप्रत्ययिक. कर्मसम्बन्ध. 1 चिन्त्य चैतदपि- यत्कथ न भवति परिणाम आश्रवत्यागाय ? कि न दप्ट आश्रवविपाकः? न श्रुत ? न श्रद्धाविषयीकृत.? न वा निपुणमालोचित ? ओमिति चेद्, भवन्तु सादरास्तत्र, येन न स्यात्तत्करणेनाविरतिप्रत्यायको वन्य । यदि च चिन्त्यते सर्व ज्ञायते च, पर न भवति परिणामश्चेदेवाशुभा भवितव्यता दृढकर्मवन्धनबद्धत्वाद्भवताम् । यदाहुधर्मदासगणिपादा-"जाणिज्जई : चितिज्जड जम्मजरामरणतंभवं दुक्ख । न य विसएसु विरज्जड अहो सुबद्धों कवडगठि ॥२॥" इति। ततावता न कर्मवन्धव्यवच्छेद , किन्तु दीर्घतेरससारपरिभ्रम एवं भावीति लक्ष्यते। ननु च कथ भवति परिणाम ?, कर्मण. प्रतिवन्धकस्य विगमाच्चेत्, सोऽपि गुभाव्यवसायात स्पष्टोऽन्योऽन्याश्रयं इति चेत्, तन्न, तथाविधशुभपरिणाम विनापि पूर्वमगठपरिणामेन प्रवृत्तिः स्यादेव वृद्धानुगानाम् । अत एव च श्रावकपुत्रनप्तकादीनां निसर्गसम्यक्त्वमिति गीयते । यद्वाअन्यथाविधपरिणामाज्जातं विरमणं विरचयिष्यत्यन्यथाविध शुद्धपरिणामम् । अत एव प्रत्याख्यान दर्शयद्भिर्ग्रन्थकारैरपि फलतया प्रत्याख्यानमेव दर्शितम्, पर तहिशेषितं शुद्धमिति । ननु च तत्प्रथमतयवासी कथं भवतीति चेद, वृद्धानुगतयों तथाभव्यत्वपरिपाकादिना वेति । तदपि कथमिति चेत्, चतु गरणगमनादिना । यत उच्यते प्रवचनानुयोगप्रधान -"अणाई जीवे अणाई जीवस्स भवे अणाइकम्मसँजोगनिवत्तिए दुवखल्वे दुक्खफले दुक्खाणुबंधे, एयस्स ण चोच्छित्ती सुद्धधम्मालो, सुद्धधम्मसेंपत्ती पार्वकम्मविगमाओ, पावकम्मविगमो तहामव्वत्ताइभावाओ, तस्स पुणे विवागसाहणाणि चउसरणगमण ढुक्कडगरिहा सुकडाणुमोयण" [पञ्चसूत्रम्] इत्यादि । फलमप्यतेपो देशितं ते ग्रन्थपाठमुखेन, यत्-"एय सम्म