________________
द्वितीर्यावशिका
८५
घटाकोटिमाटीकते। शड्डा त्वत्रान्यस्यैवातथाविधस्येति चेत्सत्य, भवन्ति वक्तार एतादृशोऽपि, यदुत-भुक्तभोगा प्रव्रजन्ति तृतीयस्यामवस्थाया, तन्नतेपा त्यागित्व क्षीणयौवनादितयेति तत्समाधानायतस्यावश्यवाच्यत्वात् । तथा च येऽभुक्तभोगा प्रवजितास्तेऽत्यन्त त्यागिनोऽपि भुक्तभोगा अपि ये प्रव्रजेयुस्तेऽपि "पच्छा वि ते.पयाया- खिप्प गच्छति अमरभवणाइ" इतिवचनात्यागिन एवेति सूचनाय 'हुरप्यर्थे' इति व्याख्यान सङ्गच्छते एव । आदिगाथा च- सुवोधैव, यतोऽच्छन्दे'त्यस्य व्रतपरिणामशून्या अपि सुवुद्धिसचिवादिवज्जीवितादीच्छया ये प्रवजन्ति, न ते त्यागिन इति ज्ञापनेन सङ्कल्पपरिहारभावविशुद्धयादिकरणायैवैतदिति न भवता कुविकल्पपोषणकरम् । यच्चोदाहृत-'परमश्रुतकेवलिभि'रित्यादि । तदप्यबोधविलसितमेव भवता व्यनक्ति, तदभिप्रायापरिज्ञानात् । यत प्रोक्तमेवैतत्तैर्द्रव्यव्याख्याने-“दव्वे भावे अदुहा पच्चक्खायव्व हवइ दुविह। दव्वम्मि असणाइ अन्नाणाई य भावम्मि ॥१॥" इति। अशनाद्यपेक्षया अज्ञानाद्यपेक्षया च प्रत्याख्येयतामाश्रित्यैष विधि ; न तु सम्पन्नस्यैव प्रत्याख्यानमिति सूरीणा तेपामभिप्राय-। कथमन्यथा, "वेउब्बिय-परदारगमण" इत्यनेन वैक्रियमैथुनप्रत्याख्यानमखिलान् थाद्धानाश्रित्य अवक्ष्यन्त । प्रत्याख्येयवर्णन च तज्ज्ञानायैव, न तु तत्सद्भावज्ञापनाय । तन्नैतत्सुन्दर सङ्कल्पन-यत्सत्येव, प्रत्याख्यान वस्तुनि, नासतीति । विशेषार्थिना च प्रथमवस्तु-दशवैकालिकीयकाष्ठहारिकाधिकारश्च सम्यक्तयाऽनुशीलनीय । तन्न प्रत्याख्येयद्रव्याद्यभावेनाविरततयाऽवस्थान युक्तियुक्तम् । अथोच्येत चतुर्थ विकल्पमाश्रित्याश्रयविहीनैर्न तादृश परिणामस्त्यागायेति । तदा किं. परिणामाभावेनाविरतिप्रत्ययिक न लगिष्यति कर्म । तथात्वे ये येऽविरतास्ते सर्व एव परिणामाभावादेवेति (न) कस्यापि