________________
द्वितीयविशिका
८४
प्रकृष्टताख्यापको निपेधविधिमुखादिना विध्यादिप्रतिपादको "भम घम्मिम विस्सभ' इत्यादौ च स्पष्ट एवासी, व्यङ्गयादिविधिनोत्तमना हि काव्यस्य "मव्यङ्गयमुत्तम" इत्यादिवचनात्, तहदत्रापीति । ननु कथमनेतना गाथा तहीति । तथैवेति गृहाण । यत. सति सङ्कल्पे यदि प्राप्त त्यज्यते च तव त्यागि वमिति, दर्गनेनागुभपरिणामसद्भावे वस्तुसयोगेऽपि च त्यागितयैव स्थेयमिति दर्गनाय, न तु वैपरी याय । अत एव चाग्रेतनाया गाथाया "समाइ पेहाइ परिव्ययतो सिया मणो निस्सरइ बहिद्धा' इत्युक्तम् । तथा च सङ्कल्पनिवारणपर एवैष उपदेन.। तथा च "न सा महं नो वि अहपि तीसे" इत्याद्युक्तमपि सङ्गच्छते । अन्यथा चिन्नयन्तु भवन्तः कि साधूनाश्रित्य तैर्वक्तव्यमभिप्रेत स्यात्तादृशानामत्यागि वोदीरणेनैतच्च रतिवाक्यचूलाधुपयुक्तेन - परिभावनीय सम्यक्। इदमत्रावधेय यथा हि-"सत्या हि मनस शुद्धौ, सन्त्यसन्तोऽपि यद्गुणा । सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या वुधस्तत. ॥१॥"[योग०] तथा-"तदिन्द्रियजयं कुर्यान्मन शुद्धया महामति । य विना यमनियम किं वृथा कायदण्डनैः ॥१॥” इत्यादी यथा मन शुद्धिप्राधान्यादापेक्षिकमन्यगुणाना सत्त्वमप्यसत्त्वेनोदीर्यते, तथाऽत्रापि सङ्कल्पविह वलचित्तानां त्यागोऽ यत्याग इत्युदीर्यते । यथा न तत्र प्राप्ताना शेषगुणाना त्यागोऽभिधेयतयाऽभिप्रेत , किन्तु मन शुद्धिरेव, तथाऽत्रापि सङ्कल्पत्याग एव सूत्रकारैरभिप्रेत , न तु गेषाणामत्यागित्वमिति नैतदालम्ब्यमन्यथाभावेनेति । पूज्यपादस्तु पञ्चवस्तुन्याख्यातमेवमेतत् द्वितीयगाथासमाधान यद्हुगब्दोऽप्यर्थे, निपातानामनेकार्थत्वात् । तथा च सोऽपि त्याग्येवेति फलितार्थ । ननु च कथमेतत्सङ्गच्छते? यतो न तस्य-स्वाधीनभोगपरिहारकस्य त्यागित्वे शङ्कालेगो, येनैव व्याख्यायमान