________________
द्वितीयविशिका
जगत्साधारणमिति कृत्वाऽस्त्येव, तत्किमिति तन्न परिह्रियते भवद्भि ? न चाशनवस्त्रादि न भवता विद्यते क्रोधादिर्वा, विद्यते चेत्प्रत्याख्यान्तु आयुष्मन्तस्तावत्तावन्मात्रमन्यस्य शबोद्धारस्य विधास्यमानत्वेन भाविनिर्णयत्वेऽप्येतस्य सुप्ठुनिर्णयादेतावत । यच्चोदाहृतम्-'या स्वाधीना सामग्री'त्यादि । तदविचारितमेव सुन्दरम्, यतो न केवलं विद्यमानेनैव कर्मवन्ध , इच्छया तदधिकस्यापि बन्धात् । यत उच्यते दिखतमपेक्ष्य-"तप्ताऽयोगोलकल्पस्य सदृतं गृहिणोऽप्यद" इत्यादि । न च यावत्प्रमाण गतस्त' यैव विरतिर्भवति, तन्न प्राप्तस्यैव त्यागे व्रतमिति नियम । अन्यच्चप्राप्तस्य य उपयोगस्तत कर्मवन्धश्च यस्ततोऽप्यधिकतमोऽप्राप्तापेक्षया भवति । अत एवोच्यते-"यदसत्स्वपि जायेत मूर्छया चित्तविप्लव” तथा अनर्थदण्डश्च निनिमित्त इति न धत्ते मर्यादाम् । स्पष्टश्चायमभिप्राय स्पष्टितो वाचकमिधः श्रावकप्रज्ञप्त्याम् । ततो ज्ञेयमिद यदुत-सम्पन्नस्य केवलस्य न प्रत्याख्यान । अत एवेच्छाप्रमाणमादिव्रत सङगच्छते । यच्चोच्छृङ्खलतया कल्पित-'न स्यात्सम्पद्यमान'मित्यादि । तदप्यविचारितमेव । यतः सम्भव्येव प्रत्याख्यायते । न च गगनकुसुमादि सम्भवि, पर नैतावतैतादृशो नियम सम्पद्यते यत्सदेव प्रत्याख्यायते, अन्यथा न करयापि समस्त सपन्नपूर्व जगत्या वर्तमान वस्त्विति कि न कस्यापि सर्वविरति ? भवन्मतेन सम्पन्नस्यैव प्रत्याख्येयत्वात् । तथात्वे च न श्रीमत्तीर्थकरा अपि मर्वविरता, आमतामन्ये, गणधरादयस्तेपामपि सर्वाधिपत्याभावात्, विद्यमानस्य प्रत्याख्यान चेत्कृत ते , तहि देशविरता एव स्यु पापस्थानभूतेभ्योऽनतेभ्य । ननु च कि तर्हि श्रावकपुत्रदुहित्रादिभिर्न कदापि सडक्लेशकारिणी विहिता त्रसहिसेति किं न सा, प्रत्याख्यया ते ।