________________
द्वितीयविधिका
एतदपि च तदैव यथार्हतामापद्यते, यदैव तत्कर्तृषु बहुमानोपचारादिक विधीयेत, निपुणश्च विचारस्तदवाप्तये क्रियेत । तदिदमाहु - " तत्कर्तृषु प्रणसोपचारौ निपुणभावचिन्तन चेति" । न च सर्वथा नास्त्येव शक्तिर्यदि सम्यङ निभाल्यते, तन्नैतदप्यालम्बनीयमाप्तागमानुसारिभि । अथ चोच्यते तृतीयस्मिन् विकल्पेऽवधाय चित्तं स्वसुकृतवधाय यदुत - या सामग्री स्वाधीना स्यात्तस्य प्रत्याख्यान फलेग्रहि यच्च न स्यात्सम्पद्यमान, तस्य क्रियमाण प्रत्याख्यान नभ कुसुमोपभोग-वन्ध्यातनयागमन-गगशृङ्गधनुर्ग्रहणप्रयाख्यानवत्काल्प निकमेव । न च तत्फलवदेव, न च श्रूयते शास्त्रे पूर्वोदिताना प्रत्याख्यानविधान, तन्नास्वाधीन वस्तुपरित्यागे विरति. गोभना । न चासी त्यागीत्युच्येतापि विवेकिभि । पारमार्षमपि तथैव । तथा च श्रीशय्यम्भत्र सूरिपादा - "वत्थगधमलकार इत्थीओ सयणाणि अ । अच्छदा जे न भुजति न से चाइ त्ति वुच्चइ || १ || " इति । यदि च स्यात्तथाविधा सामग्री, त्यज्यते, तर्ह्येव विरतित्व त्यागित्व च स्यात्, यदाहुस्त एव तत्रैव - " जे य कते पिए भोए लट्टे वि पिट्ठि कुव्वs | साहीणे चयइ भोए से हु चाइ त्ति वुच्च ॥ १ ॥ | " [ दशवै ० ] इति परमपुरुषवचनात् । अत एव च चरमश्रुतकेवलिभि प्रत्याख्यानव्याख्यानावसरे प्रत्याख्येय द्रव्यमपि निरूपितम् । तथा च तत्पाठ - " पच्चक्खाण पच्चक्खाओ पच्चक्वेअ च आणुपुव्वीए "त्ति । तन्नाऽप्राप्तसाधनाना विरति श्रेयस्करीति । तदसमञ्जसमेव, सम्यक् श्रद्धावता चाऽश्रोतव्यम्, यतस्तावत्प्राप्तमस्ति तस्य यदि भवन्त प्रत्याख्यान कुर्यु को निषेद्धा भवन्मतेऽपि च । तथा सति भाव्यमेव त्यागित्वलक्षणेन । अत एव चोदाहृतं वृत्तिकारै - उदकाग्निललनादिरत्न त्रितय परिणा सुमाधुत्वम्, न चैतन्नास्ति, भवता तृतीयस्याभावेऽपि द्वय त्वाद्य
,
८१