SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ द्वितीयविगिका रागादेव तद्ग्रहाच्च । रागस्तु 'गर्भस्थे मयि मातुरीदकस्नेह' इत्यादिना स्पष्ट एव । यद्यपि उचित एवासी तेषा तथाविधमातापितृणा शोकपरिहाराय, पर नेते कामरागादिलिप्ता , कथमन्यथा कलत्रदुहितभगिनीभ्रात्रादिषु विद्यमानेषु व्रतमग्रहीपु' । कथ वा अन्ये पामतिमुक्तकादिमहर्षिभ्यो वितीर्ण महाव्रत तैर्जीवत्सु तेषा मात्रादिषु । इति नैतदप्यालम्बनीय नि श्रेयसकारणावलम्बिनाम् । आगसाभावस्तु स्पष्ट वेविद्यत एव दूषणतया, विरतानामपि चेदसौ स्यात्, किं पुनरविरतानाम् । अत एव च गोष्ठामा हलेन 'जावज्जीव'मित्यत्र शङ्कित तद्द षणम , परिहत च तत् यन्नाशसया न क्रियते परत प्रत्याख्यानम् , किन्तु तत्तत्र न सम्भवति, व्रतभड्ने च गुरुदोष इतिकृत्वा । जानता च देवेषु स्वभावतोऽविरतत्व कथ न दोषपोषस्तथा 'प्रत्याख्याने इयेवः। आशसा तु नत्राऽपि दुष्टतयवाऽऽख्याता । सर्वविरताना पौरुष्यादिप्रत्याख्यानेऽप्ययमेव पन्था । पर तत्राग्रतो निरवद्यवर्तनेनाहारादिग्रहणान्न सामायिकवाधः, कर्मनिर्जरा तु नैव ' तदुद्भवा इति समाहित, तन्नाऽऽगसाभावो विदध्यादते कर्मबन्धमन्यदिति । अपेक्ष्यवाऽऽासा द्वितीयेऽङ्गे नगरहस्तिदृष्टान्तेनाविरताना । कर्मबन्धध्रौव्यमाम्नातम्, कर्मबन्धश्चैकेन्द्रियादीना स्पष्टक्रोधादिरहितानामपि, · सत्या चाऽऽशसायां वध्याना जीवानामायुरेव प्रवलं, यन्नापतित भवता प्रयोजनं, तथा च नाविरतिकर्मवन्धरहितत्वमित्यलम् । यदि स्वीक्रियते-भविष्यज्ज्ञानाभावादेव न स्वीक्रियते विरतिः, मा भूत् क्लिष्टकर्मोदये उदग्रवीर्यविरहात्तद्वावाद् दुरन्तससारारण्यपर्यटनमिति, तदापि न निस्तारो भवता दोपादविरतिसत्कात् । यद्यपि च तथाविधमेव ग्राह्य' प्रत्याख्यान, प्रत्याख्यानविधिकुशल , यन्न स्याद्विराधनाये यया दुर्लभवोधित्वमवाप्नुयाद् ग्राहक । यत उच्यते-"पच्चक्खा
SR No.010690
Book TitleLoka Vinshika
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherManikyasagar Suri
Publication Year1965
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy