________________
द्वितीयविशिका
कक्षीक्रियते चेद् द्वितीयो विकल्पः, पर न स सुन्दरस्तस्यैव तावन्निखिलानिष्टादृष्टवृक्षनिरूढमूलत्वात् । नयज्ञानात्क्रियमाणाऽविरति भवत्य॒ते पापप्रचयवन्धमन्यस्मै । अत एवाख्यायते'अज्ञान खलुभोकष्ट क्रोधादिभ्योऽपि सर्वपापेभ्य' इत्यादि । यच्चोच्यते-जानत आकुट्टीभावो, नाजीनतामिति तन्न, यन्न ज्ञानाज्ञानमाहात्म्य, तत् जानता क्षान्त्यादिना प्रायश्चित्तादिना : च शुद्धीभावात् अज्ञानिना च द्विबन्धीभावात्, केवल भद्रकतैव तथोपयोगिनीति तु तत्त्वमिति। अन्यथा कथ न गच्छेयुरपवर्गमेवाज्ञानभृता वरिष्ठा निगोदा एवादित । अन्यच्चाज्ञानात्ः क्रियमाणाविरति शोभना स्यादिति ज्ञानमपि कथ न ते बन्धाय, अज्ञानस्य च बन्धाभावे स्पष्टमेवाभ्यु पेयमज्ञानात्मक, वन्धाभावमयत्वात्तस्य । किञ्च-अज्ञानस्य तातेऽपि पापे शुद्धताभिमानिनो विशेषेण पापबन्धप्रसङ्गात् । अत एवाहु - - - - 'पाव काऊण सय अप्पाण सुद्धमेव वाहरइः। दुगुण करेइ पाव, बीय वालस्स- मंदत्त'मिति । अत एव.च 'अन्नाणी कि काही.' तथा 'पढम नाण तओ दयेति च पठ्यते, तन्नाज्ञानमात्रेण विरतेरकरणे पापबन्धाभावः। स्पष्टमेव च तथा सति तस्यौदयिकत्वमिति पापबन्धहेतुत्व, तथात्वाभावादन्यस्य । अत एव च-क्षायोपशमिकाद्भावादौदयिकवशङ्गत । प्रतीप क्रमण तत्र प्रतिक्रमणमुच्यते' इति प्रतिक्रमण व्युत्पाद्यते 'अथ मिथ्यासस्कारादिति तृतीय आश्री- ।। यते विकल्पस्तृतीयप्रकृतिकमिव नाऽलमिष्टसिद्धये. कामिन्या इव भवताम् । यतो नहि तत क्रियमाण किमपि विना कर्मवन्ध पुष्णात्यपरम् । . नहि विषमविपभोजिना विकारभावेऽवाप्यते जीवितवृद्धि । किञ्च-यदि न नष्टो मिथ्यासस्कारोऽद्यापि तहि स राजा वन्धहेतूना प्रशास्ति त जीव दुर्भाग्यशेखर महाबन्धरूपयाऽप्रतिहत-' याऽऽज्ञया 'पल्ले महइमहल्ले नालि सोहेइ पक्खिवे 'बहु'मित्यादि