________________
द्वितीयविशिका
LAVAN
नन्नत्य ‘खए कसायाण'ति 'सम्मणुत्ति च प्रवचनान्न तद् द्वयमपि पृथग् निर्दिश्यात् । यद्वा-अन्य एव भाव आत्मनोऽसयतत्व मोहनीयसम्पाद्यम् । यतः तद्रोधायाऽप्रतनुविधेय प्रयत्तोऽपवर्गाभिलाषुकः । नहि लवसप्तमानामपि - निलिम्पानामुपशान्तप्रायमोहानामपि प्रादुर्भवति विरतिलेशः। अत एव च 'ज्ञानस्य फल विरतिः' 'नाणं विरइफल'मिति चागमा अप्यनुगम्यन्ते । सिद्धाश्च क्षीणाशेषकर्मावस्करा अपि 'नो चरित्ती नो अचरित्ती'ति च यतः पश्यन्ते, इति भावनीय विद्वद्भिर्वीतरागागमानुसारेण वाऽविरोधमिति । न च ज्ञानवैराग्यादिसम्पाद्य सयतत्वमिति तदभाव ,एवासयतत्व इति तदभावमात्र तदस्तु, कथमौदयिकमिति प्रेयं ? । विना कर्मोदय तस्याभावात्, कर्मोदयादेवासंयतत्वमभ्युपेयम् । अत एव विज्ञान तवस्तुतत्त्वानामपि श्रेणिककृष्णादीना क्षायिकसम्यक्त्ववतामपि परिणामो न विरतेरनुपयोगिनोऽपि स्वयम्भूरमणमत्स्यादेः, तथा लेखवराणा पर सहस्रेभ्योऽपि वर्षेभ्य “आहारार्थवतामपि पवित्रज्ञानत्रितयशालिनां न विरतिपरिणामोऽविरता एवं ते तथापरिशामाभावादिति न ज्ञानादिना केवलेन, विरतिः । न च गुणस्थानाभावान्न कुर्वन्ति ते विरतिमिति विरतिक्रिययैव गुणस्थानप्राप्तिव्यक्ते.। अत एव च 'पञ्चाशकादौ गुरुपादमूले व्रतग्रहणफल दर्शयः द्भिरसन् परिणामो जायतेऽपीति दर्शितं सूरिमुख्यरिति. नैतन्मार्गानुसारिवचन मिति। न च विना कर्मोदय भवत्यसयतत्वमिति युक्तमस्यौदयिकत्वम् । अनेन-येऽकरणमेव पापपरिहारकतयोचु., ते निरस्ताः। सूक्ष्मैकेन्द्रियादीना किञ्चिदप्यकुर्वता विरतिवाहुल्यप्रसङ्गात् । अत एव च कलिकालसर्वज्ञायमान-श्रीशब्दानुशासनापूर्वसौधमूत्रधारा निशाभोजनविरतिमाश्रित्याऽचस्युः" श्रीहेमसूरिपादा.