________________
द्वितीयविगिका
NA
www
ANVAR
AAR
कर्मण उदयनैतत् ? कपायमोहनीयस्येतिं गृहाण । अथ च कि पृथगुपन्यास: कपायेभ्योऽस्य, ते न्यस्ता एवौदयिकतया पूर्वमेव द्वितीयभेदतयेति चेत् । सत्यं यथाहि- कषायेषु न्यस्तमप्यनन्तानुवन्धिचतुष्क पूर्व पुनर्मिथ्यादर्शन, तत्कार्यभूतं पृथगुपान्यासि, तथेदमपि स्यात् । ननु न केवल तदनन्तानुबन्ध्युदयप्रभवं तस्ये तद्विधायित्वेऽपि, कथमन्यथा क्षीणानुबन्धिनोऽपि मिथ्यात्वमोहस्याक्षयात् पुनस्तत्प्रचयप्रसङ्गोऽवतिष्ठते वा मिथ्यात्वं तत्क्षये, इति : दर्शनमोहनीयोद्भवत्वमेव तस्य. युक्तियुक्तम् । पठ्यते च चारित्रमोहनीयभेदेष्वेवैतच्चतुष्का कथ चैतच्चारित्रमोहस्तीति तु प्रेर्य न, प्रकृतोपयोगि भवतु वा सम्यक्त्वसदाचारमोहत्वादिता तस्य तथात्व, पर मिथ्यादर्शनस्य पृथगुपन्यासो न द्विरुक्तोऽनन्तानुवधिकषायोपन्यासेऽपीत्येतावन्मात्रस्य प्रकृतत्वात्, परं चारित्रमोहनीयभेदेषु कपायेषूपन्यस्तेषु न युक्तोऽस्य पृथगुपन्यासः। नोकषाया अपि च लिङ्गभेदकथनेन सूचिता एव । न चान्यदसयतत्वकारणमप्यस्तीति नार्थोऽनेन भेदेनेति चेत्, सत्यं प्रतिपादित परं चिन्तनीयमेतदानर्थक्यमस्य । - गुणघातकताज्ञापनाय कषायाणा पृथगुपन्यासस्य साफल्यात् । भवति चौदयिक एवान्यनवीनकर्मवन्धकारणं, परं न. स औंदयिकत्वेन किन्त्यसयतत्वद्वारैवेति ज्ञापनाय। तथा चानादित्वमपि स्यात् कर्मण इति नानर्थक्य, ज्ञात्वाभ्युपेत्याकरण वा पापस्य विरतिरिति कथ्यते, तदभावरूप. चासयत त्वमिति न तत्कषायोपन्यासमात्रेण गतार्थ, कारणकार्ययोः पार्थक्याद् वा एवमुपन्यास । यद्वा-यथा मोक्षसाधनीभूतेषु सम्यग्दर्शनज्ञानचारित्रेषु आद्यद्वितीययो प्रतिपक्षभूते निरूपिते साक्षान्मिथ्यादर्शनमज्ञान चेत्यवशिष्टस्य प्रतिपक्षभूतमसयतत्वमपि "स्पष्टतया निरदेश्यपवर्गमार्गविहितलक्ष्य सूरिभिः, अन्यथा 'केवलियनाणलभो