________________
द्वितीय विशिका
वृतात्मप्रदेशा. कथङ्कार जायेरन्नित्यज्ञानवद्भिः केवलिभिरित्यादि निरस्ता | स्वभावोपयोगानेकत्वाधिकरणभूतत्वादिनावृतेः । न च वाच्यममूर्त्तं गुणरूप वा तदस्तु अमूर्त्तत्वे तावत् केषाञ्चिन्मतेन विभ्वोः सयोगानङ्गीकाराद्, अङ्गीकारेऽपि नभस्वदनुग्रहोपघात - कर्त्तृत्वाभाव । यतो नह्यमूर्तस्य घटते बन्धादिक किञ्चिदपि, न च विपाक शरीरादिद्वारा दद्यात् कमपि । तथाङ्गीकारेऽप्यमूर्त्तत्वेन तस्यात्मन एव तथा स्वभावाङ्गीकार क्रियया विविधया विविधं युक्तो, न पृथक्कर्मकल्पन । गुणत्वमप्येतस्य विरुद्धाधिकरणकत्वेन नैव युक्त, यतो नहि श्वेताश्वेतयोरेकस्मिन् स्यात् पार्थक्येनानुभवोऽधिकरणे, सम्मिश्रतयैवानुभवात् 'समाधिको पारिणामिका' वि तिवचनाच्च । कर्म तु प्रत्यक्षमेवानुभूयते उभयथाऽपि । यतोऽन्धो - राजकुमार श्रेष्ठी वधिरश्च रूपवान् व्याघ रोग्यनपत्यश्च धनवान्न स्युश्चेन्न द्विधा कर्मेति । न च विरुद्धाधिकरणत्व विरुद्धानुभवश्च युगपद् द्रव्यत्वेपि तस्य स्यादिति वाच्यम् । कवोष्णेजले उभयाधि करणत्व विरुद्वयोरपि सतो. समावेशात् । विरुद्धानुभवश्च किं न दृष्टो रसवत्यादौ विचित्ररसवद्द्रव्या नुभवेन ज्ञानाज्ञानयो कथ समावेश इति - तु नैव नोद्यम् । द्रव्योपाधिकत्वादेव तस्य, निर्णीत चैतत्पूर्वमेव । यद्वा-आवृतिरेव तत्र, नान्यदज्ञान, तस्या एव तथात्वेनानुभवात् । नैवमंत्र पुण्याभाव पापाभावो वा पाप पुण्य वा, येन स्याद्युक्तिसङ्गत कर्मणो गुणत्वेऽपि विरुद्धसमानाधिकरणत्वम् । न चामूर्तम्य गुणरूपस्य वा नागोऽपि तस्य युक्तो, अमूर्तस्य वियोगरूपविनाशाभा'वात् । गुणस्यापि च ' वियोगाभावात् । न च नश्यति गुणो गुणान्तरांड प्रादुर्भावे । न चेष्यते कोपि मुक्तौ गुणलेशोऽपि तैर्वैशेषिकादिभिस्तन्न कर्मा मूर्त्तं गुणरूप वेति । अनेन गेहेनदिनो वाचस्पत्यादयो निरस्ता ज्ञेया । ज्ञानस्यैव ज्ञानावरणतया जैनमताश्रिते पक्षे तैर्व्याख्यानात् । ननु ज्ञानस्यात्मस्वभावात्वात् कथ कर्मणा तदभाव
ܕ
---
ST
-
-
०६४
-