________________
'द्वितीयविशिका
RRARA
रिति। ज्ञानावरणोदयविहितज्ञानतिरोभावरूपत्वमज्ञानत्वमिति फलितोऽर्थः । ननु च कर्म तावन्मूर्तिमत्, पूर्व पौद्गलिकत्वप्रतिजानात् । आत्मगुणश्च ज्ञान, आत्मा च रूपरसादिरहितोऽमूर्त इति कथ मूतिमता कर्मणाऽऽत्मन आवृतिर्ज्ञानादितिरोभावो वा सम्भवतीति चेद्, अमूर्तेनाऽप्याकाशेन यथाहि मूतिमतोऽपि घटस्य संथोगस्तथा कर्मणाऽऽत्मन सयोगे किमघटमानक?, येनैव नोद्यते। न वा प्रत्यक्षेऽनुपपन्न नाम। प्रत्यक्षो हि देहेनात्मन स्थूलेनापि योगो, अन्यथा स्पार्शनादेरयोगात् । नह्यात्मसयोगमन्तरेण शरीरेण स्पर्शादिज्ञानमुपपद्यते कथमपि, विभुत्वमङ्गीकर्तुवैशेषिकादेरपि शरीरावच्छेदेनैवात्मनो ज्ञानोत्पादाङ्गीकारात् । न च तत्सम्बन्धमन्तरेण भवति तथेति । न च घटते विभुत्वे मरणादिः, भूतमात्रवादप्रसगोऽन्यत्र स्मृत्याद्यभावः प्रत्येक पृथगदृष्टाभावः प्रतिनियतकर्तृताभाव प्रेत्यादृष्टावेदन चेति त्वन्यदेव । 'यथा च ज्ञानसाधनत्वं शरीरेन्द्रियमनसा साक्षादनुभूयते, तयाँ तस्य प्रतिवन्धकमपि मूत्तिमत् स्यात् तदा का विप्रतिपत्ति ? । ज्ञानावरणीयस्यैव तथास्वभावो यद्येनात्मना सम्बद्ध तत् तस्य स्वप्रकृत्यैव हरितक्या विरेचनविधानवत् ज्ञानमाच्छादयतिः। बध्यते च तत् विहायाऽण्टप्रदेशान् नाभिगान् रुचकाख्यानशेषैरात्मप्रदेशस्तेषां चलत्वादेकोपयोगपरिणतेश्च सर्वेषां सम्वन्धश्चास्यात्मप्रदेशैर्लोलीभावेन नोपरि न वाऽधस्तान वा पार्श्वयोरिति कथ न तज्जानमाच्छादयेत् । अनेन ये आहु :किं कर्म ज्ञानमाच्छादयत् दर्शनादिक, नाच्छादयति, कथ प्रदेशाष्टक नाच्छादयेत् येन ते केवलिवन्निर्मलता दधीरन्, अन्यथा जीवत्वोपहते , कथः वा, सर्वत्र बन्ध , कथ च तेषा तथाभावत्वे -ज्ञानावरणीयकर्मवर्गणानिचिते -,लोकेऽप्रतिहत, ज्ञान केवलिना, प्रसरेत् .. .. .. वेन प्रतिबन्धक़ताया च ज्ञानावरणा