________________
द्वितीयविशिका
५८
r
vash
-णात्। विरुद्ध च, योनिजशरीरस्यैवमेव ग्रहणसपि, कर्मक्षयश्च प्रदेशोदयवेदनेनापि सम्पद्यते । यत उक्त-'पएसज्ज सम कम्मति पारमार्पमपि-'पएसकम्म पुण नियमा वेएइ'त्ति ! न चैव व्यवस्थानात् केवलिसमुद्घातविरोध , तेनाऽऽयुष्क वर्जयित्वाऽनपर्तनीयत्वाच्छेषवेदनीयादिकर्मणा प्रदेशानुभवायैव तत्करणात् । अप्राप्तस्थितिकानामुपचिताना शीघ्र क्षयकरणायैव चायमेवम्भूत आयासोऽन्यथा अन्यथाऽपि भवत्येव प्रदेशतोऽनुवेदनेन क्षयो वद्धाना, अत एव च
, 'य..पण्मासाधिकायुष्को लभते केवलोद्गम। करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा नवे ति नियमानियमव्याख्यान सङ्गच्छते । भवति च, प्राग्भववद्ध वेदनीयमवशेषाधिकायुष्कानामधिकमन्येषा न तथेति । यद्यपि च- ... ... - 'अप्प वायरमउय वहु च रुक्खं च सुक्किल चेव । मद महच्चयति य सायाबहुल च त कम्माामितिवचनात् केवलिना सयोगिनामस्त्येव प्रभूताऽनन्ताणुकसातवेदनीयकर्मणो बन्ध , पर तदर्यापथिकमिति तृतीयसमये एवावशेषागम नश्यतीति न तदर्थमय, न च नामगोत्राणि. तेन तदा वद्धयन्त, एकविधवन्धकत्वात्, समुद्घाते च वेदनीयस्य केवलस्य न क्षय. । यच्च क्वचित्तथाव्यपदेश , स बाहुल्यमाश्रित्येत्यलम्प्रसङ्गेन । तथा च एतान् पूर्वोक्तान् नैरयिकादीन् प्रत्येकभवगतान् भवलोक इति विजानीहीति व्युपसर्गेण पूर्वोक्तभेदविशिप्टतया ज्ञान करणीयमिति ज्ञापयन्ति ।यद्वा-निरभिधानस्याप्यात्मनस्तत्तत्पर्यायतयोत्पादाद् व्यवहारेण पर्यायप्राधान्याच्चैव व्यपदिश्यमानॉस्तान् भवलोक इत्यवबुद्धचेया इति ज्ञापयन्ति । न च द्रव्यपर्याययोः सर्वथा भिदाभिदावेति नाय द्रव्यभूतानामात्मनामात्मनाप्येतेन पर्यायभूतेनाभिधानेनाभिधानमयुक्तमिति ध्येयम् । निरूप्येव भवलोकमिति षष्ठ लोकभेदमथ सप्तम भावलोकमभिधातुकामा आहुः