________________
द्वितीयविशिका
wwwww
त्रसास्ते च प्रत्याख्याता वध्यतया। यदा च न ते तथा,'न तदा'ते प्रत्याख्यानगोचरीभूता इति कथ स्थावरीभावमापन्नाना तेषा प्राप्तपूर्वत्रसत्वाना वधे आपाद्येत व्रतविराधनामिति । चिन्त्य चान्यदत्र-येऽधुना न त्रसभावे वर्तन्ते, पश्चादागमिष्यन्ति त्रसभाव, ते व्रतविपया स्युन वा? | आद्ये, वर्तमानविशेषणेन तेपामग्रहणाद् । अन्त्ये, तेषा वधे न स्याद्विराधना व्रतस्य। दुर्जेयास्तेऽत परिहार्या इति चेत्, परिहरणेऽपि वधस्याविरतिस्तु भवन्मते तदवस्थैव तद्विषया। अन्यच्च ये वर्तमानत्रसत्वेन प्रत्याख्यानगोचरीकृतास्ते स्थावरभावमापन्नाश्चेत् स्युर्वधश्च तेपा' सम्पद्येत तदा कथ न विराधना व्रतस्य ?, तेषा वर्तमानत्रसत्वेनाभय स्थापनात्, त्रसत्वपरिहाराच्चेदितरत्राऽपि समानमेवैतत् । अथ च वर्तमानंत्रसत्वा इति क्रियेत भावप्रधानो निर्देशो भवद्भिः सम्यगध्वा क्वार्थो वर्तमानेन तहि, त्रसत्वेनैव तथावश्यग्रहात् । न हि विहाय वर्त्तमानावस्थामन्यत् विरतौ गोचरीक्रियते । न च असा इति ते व्यपदिश्यन्तेऽपीति नार्थोऽनेनेति । यावद्भववर्तन तत्तद्गत्यादिना व्यपदेश इत्येवमुक्तं-तस्मिन् भवे वर्तमाना इति । ते किमित्याहु -'भवलोगं त विजाणीहित्ति । भव -पूर्वोक्तस्वरूप , स एव लोक्यमानत्वाल्लोको भवलोक तमिति । जातावेकवचनम् । तथा च तान् नरयिकादिभवे तथारूपेण वर्तमानान् जीवानित्यर्थ । यद्वा-भवत्येकव गतिरेकस्य जीवस्यैकदा, आयुषोऽप्येकस्यैव वेदन भवत्येत्येव निर्देश । एकवचनेनानेन य आहु.-भवद्वयीयमायुर्वेद्यते इति कुतीथिका', 'कायव्यूहद्वारा वाऽनेकभवायुर्नामगोत्रादिवेदन वा, ते निरस्ता । नासमापिते वर्तमानभवायुषि अन्यभवायुष्क वेद्यते, अन्यथा निष्फलमेव तत्, तद्गत्याद्यसहचारित्वाच्च न तत्त्वतस्तत्तत् । कायव्यूहरचाप्रमाण' एव, एकस्मिन्भवे वर्तमाने मानुषादिके शूकरादिभवाग्रह
T