________________
द्वितीयविशिका
AVM
एगजिओ' मुयइ फुसिअ सव्वअणू । 'जित्तिअकालि स थूलो दव्वे सुहमो सगन्नयरा ॥२॥ लोगपएसोसप्पिणीसमया अणुभागबधठाणा य। जह तह कममरणेण 'पुट्ठा खित्ताइथूलियरा ।।३।। इति । समयादिकश्च काललोक', कलासमुदायत्वात् संसयानसाधनत्वाच्च । तदेव व्याख्याय काललोक क्रमप्राप्त भवलोकमभिधातुकामा आहुः--
- नेरइयदेवमणुआ तिरिक्खजोणीगया य जे सत्ता। .. तमि भवे वट्टता भवलोग त विआणाहि ॥६॥ . . तत्र निर्गतमयमिष्ट सुख:यस्मादसौ निरयो-धर्मावशाशैला
जनारिण्टामघामाधवत्यभिधाना. रत्नशर्करावालुकापकधूमतमो महातमःप्रभाख्यगोत्रा नरकाः । तत्र भवास्त-एव नैरयिका । न च वाच्य, न सन्त्येव नरकगति रयिका वाऽनुपलम्भादित्ति । अनुपलम्भमात्रेणाभावासिद्धर्भवेच्च परमाण्वादीनामप्यभाव एव सति । अनुमानेन गम्यन्ते ते चेत् । किमत्र न तत् । जगद्वैचित्र्य जीवानामेकविधत्वेन-नान्यकारणमन्तरेणोपलभ्यमान -युक्तियुक्त; स्वभावभेदोऽपि न कारणमन्तरेण । - सिद्धे च वैचित्र्यकारणे कर्मणि मनुष्यतिरश्चोस्तन्मध्यममेव, फलद;-, सुखदु खतीव्रतानुपलम्भात् तीवदु खसहनसहिष्णुतथाविधकायाभावाच्चावश्य तीव्रतमकर्मफलभोगा अभ्युपेया नैरयिका'- अथ मति -अत्यन्तदु.खिता दृश्यमाना नरास्तिर्यञ्च एव च नैरयिका.। तदपि न सुन्दरम् । यतो हि ते उपमयैव गोचरीक्रियन्ते, यदमी नैरयिकवदतिदुःसह सहन्ते दुखमिति न ते नैरयिका , उपमानोपमेययोः - सति भिन्नत्वे एव तथावर्णनात् । तथा यथा राजादि कश्चित् सुखातिशयेन व्यपदिश्यतेऽमय॑वन्मयोऽपि सन्नेषोऽनुभवति सुख, तथैषोऽपीति भाव्यमुपमादानादेव सिहादिवत् तेनेति प्रतिपादित च परममुनिभि. ।