________________
द्वितीयविशिका
४९
तत्रैकान्तसुषमार-श्चतस्र कोटिकोटय । सागराणां सुषमा तु, तिस्रस्तूत्कोटिकोटय ||१|| सुषमदु.षमा ते द्वे, दुषमसुसमा पुन । सैका सहसैवर्याणा, द्विचत्वारिंशतोनिता ।।२।। अथ दु:ष-- मैकविशतिरदसहस्राणि तावती तु स्यात् । एकान्तदु.षमापि । तत्कालीननरादिजीवितमान चेद । कालवगादेव वृद्धिहानिभावात्प्रथमेऽरत्रये मां-स्त्रिद्वयेकपल्यजीविता । त्रिद्वयेक गव्यूत्युछायास्त्रिद्वयेकदिनभोजना ||११॥ कल्पद्रुफलसन्तुष्टा-श्चतुर्थे त्वरके नरा । पूर्वकोट्यायुष पञ्च-धनु शतसमुच्छ्या ।।२।। पञ्चमे तु वर्षशतायुष सप्तकरोच्छ्या । षष्ठे पुन पोडशाव्दा-युषो हस्तसमुछ्या.। एकान्तदु.खप्रचिता इति । यद्यप्यत्रावसपिण्येवोदिता सूत्रकारैः, पर नकाकिन्योऽवमपिण्य सम्भवन्ति, उत्सपिण्यन्तरितत्वात्तासामिति सापि सूचितैवेति ज्ञेयम् । उभयोर्मीलनेनैव कालचक्रभावात् यदाहु..
'अवसर्पिण्या षडरा, उत्सर्पिण्या त एव विपरीता । एव द्वादशभिररै-विवर्तते कालचक्रमिद ॥ [अभिधान०] ननु क: सागरोपमोऽत्रारादिस्थितौ ग्राह्य ? इति चेद्, आयुष्कादिसमा। नधर्मत्वात् क्षेत्रभेद एवैषा सूक्ष्मो ग्राह्य इति । न केवलमेतावदेव कालमानमिति प्रोचु -'परिय (पर)दृत्तिः। तत्र परावर्तन परावर्त्तः । आर्षत्वात् तस्य ट्ट, वस्य लुग् उद्धृतेपि लुक संयोगे ह्रस्वश्चेति । आर्ष बहुलमिति सर्वेषामार्षे बाहुल्येन विधानात् । बाहुल्यं प्रवृत्तीतरोभयान्यैश्चतुति न किञ्चिदनुपपन्नम् । अत्रापि भामादिवत् समुदायोपचारोऽवयवे ज्ञेयः । तथा पुद्गलपरावर्त इति लभ्यते । कतिविधा. पुदगला कथ च तेषा परावर्त्त ? इति चेदुच्यते अष्टविधास्तावत्युद्गला , औदारिकवैक्रियाहारकतैजसभापानपानमनोकर्मभेदात् । तत्र आहारकशरीरपुद्गलनिष्पन्न , चतुर्दशपूर्वविदामेवाहारकम् ।