________________
द्वितीय विशिका
४६
यथा न दाहको दहेत् प्रवेशाभावात्तस्य अयोगोलकादिवत्, न च वायुहरेत् निविडत्वादेव, न वा क्वथयेत् पानीय ग्रावादिवत्तत्र प्रवेगाभावादेव, तथा च नैव पूतिभावमागच्छेत् क्वाथाभावे दुर्गन्धिताभावादेव । एतस्माच्च प्रतिसमयमेकैकस्य वालाग्रस्यापहारे क्रियमाणे यावता समयेनाऽसौ रिक्तीभवति पल्य सर्वथा, स व्यावहारिक उद्धारपल्योपम । सूक्ष्मस्तु तेषामेव वालाग्राणामेकैक वालाग्रमससचेयश खण्डयते । तच्च दृश्यरेणोरसवयेयभागमित स्यात्, सूक्ष्मपनकजीवावगाहनायाश्चासङ्खचेयगुण खण्ड स्यात् । पूर्ववदत्राप्यपहार प्रतिममयमेकैकस्य खण्डस्य, निष्ठिते च सर्वथा सूक्ष्मोद्धारपल्योपम काल । एवमेव अद्धाक्षेत्रपल्योपमयोरपि वाच्यम्, पर अद्धापल्योपमं कालप्रधानत्वात् एकैक वालाग्र खण्ड च प्रतिवर्षशतमेककमपहरता ज्ञेयम् । क्षेत्रपल्योपमस्य च क्षेत्रप्राधान्यात् तैरेव वालाप्रै क्रमा प्रदेशा आकाशस्य तत स्पृष्टा स्पृष्टास्पृष्टाश्चापहियन्ते, तदा भवति क्षेत्रपल्योपम द्विविधमपि ऋमेण । ननु तादगे निचिते सम्भवन्ति किमाकागप्रदेशा अस्पृष्टा वाला ? येन स्पृष्टास्पृष्टोभयापहारो व्यपदिश्यते इति चेद् । ओम्, यथा कूष्माण्डभृते मातुलिङ्गास्तनिचिते बिल्वानि, तैश्च सम्पूर्णे आमलकान्येव क्रमश बदराणि चणका सर्पपा गङ्गावालुकाकणारच पूर्वपूर्वरापूर्णेऽपि मायादपरमपर, पूर्वस्योत्तरापेक्ष्या स्थूलतरत्वाद् । एवमत्रापि केशाग्रखण्डान्यप्याकाशप्रदेशापेक्षया स्थूलतराण्येवेत्येवमुक्तम् । ननु च यदि स्पृष्टा अस्पृष्टाश्चोभयेऽपि यदि अपकृष्यन्ते नभ प्रदेशास्ततस्तहि वालाग्राणामसङ्घचखण्डीकरण किमर्थ, न हि खण्डीकृतेऽपि स्पृष्टास्पृप्टोभयग्रहणादस्ति विशेप । न च वाच्य उद्धाराद्धापल्योपमपाठसदृशपाठ एप इति । एतस्य पृथक् पाठ एव नत्वतिदिप्ट सूत्रे भविष्यति चैतत्पाठतो व्यक्तमिति चेदवधारणी