________________
हितीयविशिका
४४
भावात् क्रमेण कर्कमकरसङक्रान्त्यो समीपे । द्वादशनादमानत्वेन व्यवहारात्तत्पादोनमानमुहर्त्तन दिवसस्यैतत् प्रमाण च न कथञ्चनापि विरुध्यति । मध्यभरतमध्यभागापेक्षया चैतत्सर्वं दिनादिमानमुक्तमवगनव्यम् । तथैव शास्त्रोक्तेरिति । तावन्मानैव च जेया रात्रिरनुक्तापि, तेन त्रिगन्मुहर्तमानोऽहोरात्र इति सम्पन्नम्। 'सिचयनिकाय्यरात्रवृत्रा' [लिङगानु० ] इति पुस्त्व । ते च पञ्चदश पक्ष: समुदिता । पक्षौ च द्वौ मास । ततश्च दिवसादीना मासान्तानां द्वन्द्व । चकार सर्वेपा कालत्वेन तुल्यताज्ञापनाय अवान्तरानुक्तभेदसमुच्चयाय वा । ततश्च मासद्वयमान ऋतु, 'द्वी द्वौ मार्गादिकावृतु'रितिवचनात् । ते च त्रयोऽयन शिशिराय॑स्त्रिभि'रितिवचनात् गिशिरवसन्तग्रीमा उत्तरायण,वाशरद्धेमन्ता दक्षिणायनं चेत्यर्थ । ते च द्वे संवत्सर । 'अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सर' इति वचनात् । आद्यमुदीचीनमन्यंदपरमिति । यद्यपि मासवर्पयो सौरचन्द्रादिका भेदा. सन्ति । न चात्र विशेपनिर्देशस्तथापि ऋत्वधिकारात् तत्सवत्सरो मासश्च ग्राह्य । युग च सवत्सरपञ्चकमान, यदाश्रिन्योच्यते चन्द्र-चन्द्राऽभिवधित-चन्द्राऽभिवधिताख्यपञ्चवर्ष मित युग 'पचमवच्छरे जुए त्तिवचनात् । अग्रतोऽप्यनुसन्धेयमेतत्सूवसूचिततया
'वीस जुयाइ वाससयं, दस वाससयाइ वाससहस्सं, सय, वाममहस्साण वाससयसहस्स, चउरासीइ वाससयसहस्सा से एगे पुव्वगे, चउरामीड पुव्वगसयसहस्सा से एगे पुव्वे, एतन्मान चेद पठ्यते गास्त्रान्तरे
- 'पुबम्म उ परिमाण सयरी खलु होति कोडिलक्खाओ।