________________
द्वितीयविशिका
४१
R
समयावलिअमुहुत्ता दिवस अहोरत्तपक्खमासा अ । संवच्छरजुगपलिआ सागर ओसप्पिपरियट्टा ।। ५ ।'
तत्र समय -कालविशेष योऽसौ परमप्रकृष्ट जीर्णपदृशा" टिकास्फाटनोत्पलपत्रगतभेददप्टान्तेनागमे प्रसिद्ध । स हि न वेदितु शक्योऽन्तरा केवलिन.। यद्यपि परमाणुविज्ञानमस्ति छद्मस्थाना, परमावधीना तावत्पर्यन्तरूपिपदार्थप्रभासनप्रवणत्वात्, पर तस्य रूपित्वाद् रूपिण्ववधेरितिनियमाच्च सम्भव्येतत्, पर नाऽस्य । न च वाच्यमसख्य हि कालमवधिर्जानाति कालतो, लोकप्रमितानसडख्यखण्डुकान् यथाऽलोके क्षेत्रत । यदुदाहृत-खेत्तओ ण ओहिनाणी उक्कोसओ अलोए लोअमित्ते असखिज्जे भागे जाणइ -पास। कालओ ण असखेज्जाओ उस्सपिणीओ ओसप्पिणीये' त्यादि । तत् कय नासौं वेत्ति समयमिति ? | प्रथम तावदरूपित्वात् क्षेत्रकालयोन सौ जानात्येव, किन्तु तद्वर्तीनि द्रव्याण्येव रूपीणि । न च वाच्यमलोके नास्त्येव रूपिद्रव्यमिति किं द्रष्टव्यमनेन। अन्यथाऽनृतमेव स्यादेव सूत्र, लक्ष्यदोषे लक्षणस्यैव दुष्टत्वादिति । तस्य यथा यथा विशुद्धया विषयवृद्धिस्तथा तथाऽत्र सूक्ष्मतरसूक्ष्मतमद्रव्यदर्शन सम्पद्यते यावत्परमाणुरिति । नच वस्त्वभावेनाऽदर्शने व्यांहति काचिदपि, अस्मादशानामपि स्पार्शनादिप्रत्यक्षाणामपि मत्येव वस्तुन्यवलोकनात् । न चास्ति नियमो यदवयवदर्शने सत्येवावयविदर्शनेन भाव्य । सति तस्मिन्भिन्ने अन्यथास्मदादीनामपि घटादयोऽवयविनोऽदृश्या एव समापोरन् । नहि दृश्यन्तेऽस्मदादिभि परमाणव पारम्पर्यतोऽवयवभूता इति न परमाणुसमयकक्षेत्रावगाहादिदर्शनाभावेऽपि तेपा विशेषस्यादर्शन तेषाम् । अत एवोच्यते- आन्तर्मुहूत्तिको हि छाद्मस्थिक उपयोग । अत एव