________________
द्वितीयवंशिका
४३
एम मुहुत्तो भणिओ सव्वेहि अणतनाणिह । ति । अय क्रमोऽत्र - सप्त प्राणाः स्तोक, सप्त स्तोका लव सप्तसप्ततिलवाश्च मुहूर्त्त इति । तदुक्त
,
'सत्त पाणि से थोवे सत्त थोवाणि से लवे ।
t
- लवाण सत्तहत्तरीए एस मुहुत्ते वियाहिए । ति । नपुस्त्वं चात्र प्राकृतत्वात् । यट्टा-पट्पञ्चाशे द्वे शते आवलिकानामेकस्मिन् क्षुल्लकभवे, ते च पञ्चपष्टिसहस्राणि पत्रिशदधिकानि पञ्च शतानि चंको मुहूर्त्त । ननु कयमिद सङ्गमनीय' यत एतेन मानेन त्वहोरात्रमध्ये लक्षैका त्रयोदश सहस्राणि नवत्यधिक च शत स्यात् प्राणाना श्वासोच्छ्वासनामधेयानाम् । शास्त्रे तु - 'पट्गता - भ्यधिकान्याहु, सहस्राण्येकविगतिम् । अहोरात्रे नरि स्वस्थ, प्राणवायोर्गमागम' || मित्यल्पैव सङख्या सङख्यायितेति चेद् । अवधारयन्तु सावधान मनसो - यदेतत् 'षट्शताभ्यधिकेत्यादि पठित प्राणायामोपयोगितया यो वायुनिर्गमो निरुध्यते तमुद्दिश्याभिहितम् । भवति चाय निर्गमस्तावत्परिमाण । अत्र तु रुधिरादिनाडीवहनमाश्रित्येय सख्या प्रतिपादिता, आयुष्कमानोपयोगादिति न कमपि विरोधमुत्पश्यामोऽत्रेति । प्रत्येय चैतदत्रोक्त प्राणप्रमाण नाडी परामृश्य हस्तयोर्हृदये वा यत् कम्पप्रमाणम् । अनुवदिष्यत्येतत् विलोकनीय वा नाडीपरीक्षाशास्त्रम् । यच्च किञ्चित् स्यान् न्यूनाधिक्य पुरुषविशेषेण तदत्र न न्यूनम्, यतो 'हृष्टस्ये' त्याद्युदितमेवाssदित । यवना अपि प्रतिपल जगुरेव धमनीकम्पान् षष्ट्यधिकानिति । समयादीनां द्वन्द्व । क्रमप्राधान्यान्नावलिका प्राग् । पञ्चदश मुहूर्त्ताश्च दिवसमान मध्यमया रीत्यैतत् । अन्यथा तु जघन्यतो द्वादशमौहूत्तिकस्योत्कृष्टतोऽष्टादशमीहूत्तिकस्यापि तस्य