SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वितीयविशिका ३८ नर्तक्यादिवस्तुनि अवेक्षकाक्षिप्रचययच्चावतिष्ठन्ते इति नंतेपा परिमितेऽपि क्षेत्रेऽवस्थानमसङ्गत । परैरपि काल-खात्मदिशा सर्वगतत्वाङ्गीकारेण स्वीकृतमेवैतदेव यन्नामूर्त्तानामवकाशरोधित्वमिति । ससारिणोऽपि द्विवैव साधारणा प्रत्येकाश्च । तत्राप्याद्याः तावत्तथाविधनामकर्मोदयनाथवन्तोऽन्योऽन्य सम्पिण्डिता एकस्मिन् कायेऽवतिष्ठन्तेऽनन्ता, असदख्येयान्येव च तेषा शरीराणि । न च वाच्य कथं तेषामनन्ताना जीवानामपि तथाविधाया सूक्ष्मायामेकस्या तनाववकाश सम्भवति । नासाध्य किमपि कर्मभिर्यथा जीवत्येव मातु कुक्षौ घनान्धकाररुद्वाया वाय्वादिगमागमवर्ज्याया जीव । न चावाप्तजनु कथमपि क्षणमेक तथा स्थातुमल स्यात् । यद्वा - जीवाना तावदमूर्त्तत्वान्नावकाशमानत्वे विरोधलेश, कर्मा - द्यणूना पुरस्ताद् वितीर्यमाणपुद्गलावगाहसमाधानेनैव समाधेयमन्त करणमिति । अन्त्यानामपि चासल्येयान्येव तानि तेषा सदेवासुरमनुजानामपीति न किमपि चर्च्यमत्र | पुद्गलाना मूर्त्तत्वादवकाशरोधकत्वाच्च कथमेतावतामतिवहूनामेतावत्याकागे तदपेक्षयाऽत्यल्पतरपरिणामेऽवगाह इति चेन् मा भवन्त त्वरिषत स्मास्ववीयता तावद् भवद्भिरेतद्यदुत - द्विधा पुद्गला - अणव स्कन्वाश्च । ननु चतुर्विवा पठ्यन्तेऽन्यत्र स्कन्धदेशप्रदेशपरमाणुभेदेनेति चेत् । सत्य, भण्यन्ते परमुपचारतो व्यपदेशभेदविवक्षातो वा । यतोऽवयविनोऽखण्डम्य कतिचिदवयवसमुदाय तत्सम्बद्ध एव भिन्नो विवक्ष्यते, तदाऽसौ देश इति व्यपदेशमर्हति नत्वेतावताऽम्य भिन्नत्व । एवमेव सयुक्ता अवयवा एव परमाणव प्रदेशा इत्युच्यन्ते । न च प्रदेशपरमाण्वोविना सम्वन्धमस्ति कश्चिद् भेद | तत्र नायान्ति अननन्ताणुसमुदाया ग्राह्यता, परमाणुत्वव्याघातात् । नहि पञ्चमेन षष्ठेन वा भागेन दृश्यमानाना त्रिशत्तमेनापि
SR No.010690
Book TitleLoka Vinshika
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherManikyasagar Suri
Publication Year1965
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy