________________
द्वितीयविगिका
३७
तार्थवादित्वेऽपि क्षयोपशमतारतम्यादवबोधवैचित्र्य, न त्वेषामितिज्ञापनायाऽनन्तेति । तैर्देशित-ससुरासुरमनुजाया पर्षदि प्रजापित, एन क्षेत्रलोक विजानीहीति योजना कार्या । अनेनैतज्ज्ञापयति यदूतनावबुद्ध यत्,न सम्यक् तत् परेभ्य प्ररूपयेत् । प्ररूपयेच्चेद् यथालाभमुदाहृत्यैव । अत एव च सर्वश्रुतस्कन्धानामादौ नन्दीव्याख्यान प्रायेण क्रियते, मङ्गलमपि तदर्थमेव शास्त्रस्यादौ । यन्नात्र विवृतोऽर्थ स्वमनीषिकया, किन्तु श्रीमदकलङ्कज्ञानसम्पत्समन्वितश्रीजिनवरेन्द्रोपदेशानुसारेणेति ज्ञापित तेन स्यात् । अत एव च गुरुपर्वक्रमलक्षण सम्बन्धमभिधेयतापदवीमञ्चतीत्यभिदधुरभिधेयतात्पर्यविद । यतस्तैर्महापुरुष प्रणीतमपि न गुरुपर्वक्रममन्तरेण स्व यावदायातमिति, तज्ज्ञापनेनैव व्याख्येयप्रामाण्यतेत्यलम्प्रसङ्गेन । स्वबुद्धिप्रज्ञापितमर्थमन्वाख्यायता चानन्तकेवलिश्रुतधराद्याशातनापत्तिश्च, या श्रीमद्भगवत्याख्याता साप्यनेनावेदिता बोध्या । अनन्तकेवलयादिप्ररूपिताद् वितथार्थभापित्वेन तथात्वस्यावश्यकत्वात् । न चैतादृशे ऽरूपिण्यर्थे यथा तथावगम सम्पद्यते किन्तु श्रद्धानेनैवेतिज्ञापनाय सम्यगिति । अन्यथा सर्व एव धर्मादि सूक्ष्मबुद्धयव ज्ञेयोऽन्यथा तु धर्मबुद्धयैव तद्विघातप्रसङ्गात् । यत आहु. प्रवचनानुयोगप्रधाना -सूक्ष्मबुद्धया सदा ज्ञेयो, धर्मो धर्माणिभिर्नरै। अन्यथा धर्मबुद्ध्यैव, तद्विघात प्रसज्यते ।। इति । यद्वा-सम्यगिति वचनेन तस्यानुमानप्रमाणज्ञेयताऽविसवादिता च ध्वन्यते । ननु चाकाशस्यानन्तप्रदेशमयत्वेऽप्यसडख्येया एव लोकाकाश इति प्रतिपाद्यते, जीवपुद्गलाश्च तन्मध्यवर्तितया अनन्तानन्ताश्च ते, तत् कथमेषोऽर्थ उपपद्यतेति चेत्, सम्यक्पर्यन्वयुडक्षत भवन्त । जीवास्तावद् द्विविधा -ससारिणो मुक्ताश्च । तत्राऽन्त्यास्तावद् 'असरीरा जीवघणा' इत्यादिवचनात् दीपोद्योतवत् एकस्मिन्नपि