________________
द्वितीर्यावशिका
३६
wwnwer
NAAMANA
तेणहोलोगो' इत्यादिवचनात् । नच वाच्यमधोलोकेऽप्यसुरादय उत्तमा ऊर्ध्व चैकेन्द्रियादिभावात् कथमेतदिति । 'ओसण्ण'मिति वचनात् बाहुल्याभिप्रायकस्यैतस्य कथञ्चिदपि विरोधानानातत्वात् । यद्वा-शुभाशुभाण्वादिसद्भावेऽपि स्वस्वादृष्टानुसारेणव परिणमन्ते, कथमन्यर्थकत्रैवावस्थितानामनेकधा स्वस्वादृष्टानुकूलविपाकोद्भवो युक्त स्यादिति । अत एवोच्यते-'नेरइयाण असुभा पोग्गला असुभे पुग्गलपरिणामे, असुरकुमाराण सुभा पोग्गला सुभे पोग्गलपरिणामे जाव थणियाण, पुढविकाइया जाव तेइदिया' इत्यादि । पुद्गल-परिणामोभयग्रहणमेव ज्ञापयत्येतत् स्यानाङ्गे च-अत एवागुभा पुद्गला अन्धकारकरि इति । स्पष्ट चंतदाकरे। अत एव च लोह-लोहोपलवज्जीवाना तथाविधादृष्टेन स्वयमेव भवान्तरोत्पाद नरकान्धकारे प्रतिपादित भगवद्भि । ननु क्षेत्रलोक आकागप्रदेगा ,ते चारूपिणोऽरूपिपदार्थजान च न साक्षात् छद्मस्थाना भवति, तत्कयमेतत्प्रत्येय्यमित्याह-अणतजिणदेसिय सम्मति । तत्र जयन्ति रागद्वेषमोहलक्षणानन्तरङ्गारातीनिति 'जीणगीदीवुध्यविमीभ्य कि [२६१] दि'ति किति ने जिना-अर्हन्तः अनन्ता-अनन्तसडख्याका । ननु कथ परिमितकाले तावता सद्भाव? इति चेन् न,कालस्यानादित्वेन प्रत्युत्सपिण्यवसपिणि च चतुर्विंशतिचतुर्विंशतिभावात् स्यादेवानन्ता सत्त्वासाधारणोपकारपरायणनीर्थप्रवर्तनपरास्तीर्थकरा अनन्ता , किमुत केवलिन । यद्यपि जिनवरस्य केवलालोकावलोकितलोकालोकस्य करामलकन्यायेनास्त्येव स्वत प्रामाण्य, अत एव च 'केवलिपन्नतो धम्मो लोगुत्तम' इत्यादि परिपठ्यते, तथापि न तेषा मतभेदो, यथास्थितपदार्थप्रकटनपटुमायिकभावाप्तनिखिलज्ञेयसार्थसाक्षात्कारस्वभाव केवल ह्येकविधमेव सर्वेषा यतो, भवति हि क्षयोपशमवतामेव यथास्थि