________________
द्वितीयविशिका
र्मेखलात्रयकाण्डत्रयशोभितगरीर सुराचल , तस्याधस्तने वज्रलक्षणे प्रथमकाण्डे सममध्ये तिरश्चिनलोकस्यास्ति प्रदेशाष्टक व्यवस्थितदिगादिदेशकत्वात् दिगादिप्रभवभूतम् । तदुक्त-‘एस पहवो दिसाण एसेव भवे अणुदिसाण पी'त्यादि । अत एव लोकमध्यमपि तत्रैव व्यपदिश्यते, तदाह-'रयणपहाइघणोदहि तणुसखासखभागमइगतु । तत्थ य च उदसरज्जुमज्झ'न्ति । रुचकाकारेण गोस्तनाकारेण प्रदेशानामवस्थानाद् अप्टाना रुचक इति सजेति तदेव मध्यम् । अत एव लोकमध्यावधिआदिव्यवस्थाया नियमात् सत्तुड्ढसत्ताहो नि व्यपदिश्यते । न सौम्यस्थौल्यादिवदणुस्कन्धानामापेक्षिकोऽत्रो दिदिभाग इति । नच तापक्षेत्राश्विदनियमितता। यतो हि परिभ्रमन्मेरु प्रदक्षिण कुर्वन्नागच्छत्यादित्य , मा पूर्वेतिव्यपदेशेन सर्वत्रानियमितपूर्वादिदिगा व्यवस्थानाद् । अत एव पठ्यते'सब्वेनि उत्तरो मेरू' इति । अन्येपि सर्वेपामेव वर्षाणा मेरुत्तरत स्थितो, अत्रवणामिति क्षेत्राणामिति, 'वर्षस्तु द्वीपाशवृष्टिषु' इति कोगोक्तेरिति । अत्र तु नियतत्वाद् रुचकस्य, न तथाऽनियमिततोधिस्तिर्यग्भागानाम् । अनेन ऊर्ध्व गच्छन्त्या. कीटिकाया उपरितनोऽधोभागो भूमिश्चोपरिभाग इत्यनियतवो दिदिगिति जडशेखरप्रलापो निरस्त । अथैव लोकस्य मध्यमूलतादिवोधाय निरूप्य प्रथम तदाकृतिराख्यायते, येन स्याद् बाहुल्यादिपरिज्ञान तस्योवादी वडसाहठाणट्ठियकडित्थकरजुगनरागिई लोगों'त्ति । अन्यत्रापि लोकपुरुषोऽय वैशाखस्थानस्थ पुरुष इव कटिस्थकरयुग्म इति च । एव समुदायेनाकृति निर्दिश्यापि वालबोधाय अपरथापि निदिश्यते-'अहमुहमहमल्लगट्ठियलहुमल्लगसपुडसरिच्छत्ति । अत्राधोमुखें महन्मल्लकं यत् स्थाप्यते, पश्चात्तदुपरि लघुमल्लकसम्पुटं, भवति चोभाभ्यां याऽऽकृति. तया सदृशो लोकस्य सम्पूर्ण