________________
द्वितीयविगिका
maa २९
लेगतोऽप्येतादास्यासम्भविनो विरुद्धस्योल्लेखस्यादर्शनादप्रतिहतसाम्राज्ये आहेतशासने । एतदेव च साम्राज्यमाहतशासनस्याभिनन्दनीयमितरेषा, यन्न तत्र क्वचिदपि स्वकपोलकल्पनया विकलप्य पराभिमततया दगितम्, परैर्यथा 'समूलो वा एष परिगुप्यति योऽनृतमभिवदती'त्युद्धृष्यमाणैरप्यनेकश तज्जैनरेवाभिमत सम्यक्तयोपनिपद्ग्रन्थो यत्सत्यान्न प्रमदितव्य कथ प्रमाघेरन्नन्यथा तदभ्युपगम्यापि । धर्मादिरहितत्व च कथमलोकाकाशस्येति त्वने पञ्चास्तिकायव्याख्यायामनुसन्धेयम् । तस्यैवविधस्याकाशस्य प्रदेशा -प्रकृष्टा अविभाज्या केवलिधियापि देशा-अवयवा प्रदेगा । , नहि येनावच्छेदेन वा घटादेरवगाह ददाति तेनावच्छेदेन तदभावा
वस्थान पटाद्यवस्थान वेति स्पष्ट एवाकाशस्य सप्रदेशत्वम् । यद्यपि चाकाशस्यानन्ता एव प्रदेशा , 'आकाशस्यानन्ता' इति पारमर्षप्रामाण्यात् पूर्वोक्तयुक्तेश्च तथाऽप्यत्र लोकप्ररूपणस्य प्रस्तुतत्वाल्लोकाकाशस्यैव ते ग्राह्या, अन्यथा पुरस्तानिर्दिश्यमानविभागत्रयस्यासामञ्जस्यापत्ते । ननु केय चातुरी नूतना यदुतक्षेत्रलोक प्रस्तावयित्वा द्रव्यभूतस्याकाशस्य निरूपणम्, स हि द्रव्यलोक एव, परिपठितश्च तिन्नि कायत्ति वाक्येन । पूर्वमेव तत् क्षेत्रलोक एव वक्तुमुचितो यथार्थाख्यानख्यातयशसा नियुक्तिकाराणामिति चेन् ननु मा भवन्तस्त्वरिषत क्षमन्ता वैकमपराधमेन नियुक्तिकाराणाम् । तत्त्वतस्तु न क्षेत्रमाकाशादन्यदिति प्रस्तुतमाकागम् । यत 'क्षि निवासगत्यो' रिति तौदादिको धातु । तस्मात् 'हुयामाश्रुवसिभसिगुवीपचिवचिध्यम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपतिधूभ्यस्त्र' (४५१) इत्यौणादिकोऽधिकरणे त्रप्रत्यय । 'स्ताद्यशितोऽत्रोणादे' (सि ४।४।३२)रिति वर्जनान्नेट् । तथाच क्षियन्ति धर्माधर्मा स्तिकायौ जीवा पुद्गलाश्चास्मिन्निति क्षेत्रमिति व्युत्पत्तेराकाशमेव,