________________
द्वितीर्यावगिका
२७
प्राधान्यतोऽत्र निर्देश इति नात्र गडावकागः । एव च जीवाजीवस्थित्यभिधानेन द्रव्यलोकनिरूपणा क्रमप्रापिता समाप्तेति सूचनायाहुरमिति । यथाहि-यथार्थनीतिविनिवेशित महानगर नाहार सुखाधिगतये । एव प्रस्तुत लोकस्वरूपमिति द्वाराण्यस्य विहितानि । तत्र द्वारमिव द्वारमवतारमार्ग प्रवेशमार्गो वेत्यर्थ. । नामस्थापने तु सुगमत्वान्न द्वारतयाभिमते इति तु पातनिकयैव चोतितम् । एव द्रव्यलोक निरूप्य क्रमप्राप्त क्षेत्रलोकं विविवर्षव आहु -
आगासस्त पएसा उड्ढ च अहे अतिरियलोए य ।
जाणाहि खित्तलोग अणतजिणदेसिअ सम्म ॥४॥ तत्र आड-मर्यादया स्वस्वभावेन काशन्ते-शोभन्ते पदार्था धर्माद्या । अस्मिन्निति आकाश । व्यञ्जनादिति घञ् । सदावस्थितिमन्तोऽप्य - स्मिन्ते न स्वस्वभाव परित्यज्यैतद्रूपता प्राप्ता प्रानुवन्ति प्राप्स्यन्ति नेत्याकाशताऽस्य । अभिविधी वाऽऽड । सर्वत्रवाय, नहि किमपि स्थल, यत्र नासौ स्यात्, लोकालोकव्यापकत्वादस्य । अन्ये न च न मानमत्र, यतो हि तद् अवगाहदानस्वभाव, न च लोकात्परतो न तत्, किं तहि परत इति वाच्य, न किञ्चिच्चेदेतदेव भवद्धियाकाशत्व, आवरणाभावरूपत्वात्तस्य । वस्तुतस्तु परत इति सर्वत्रेति च निर्देगादेवाकाशस्य सर्वव्यापकता अवगाहदानाभावस्तु तत्र धर्माद्यभावेन जीवपुद्गलाना गतिस्थितियुगलाभावादेव । नारण्य उदितो रविप्रकाशो नोपयुक्ततामेति, वाद्धिमध्यपतिता वा वर्षा, एतावता तत्स्वभावतापरित्यागोऽवस्तुत्व वा,एवमलोकाकाशेऽप्यवगन्तव्यम् । श्रुतिरपि'नवास्या अन्त गच्छत्यनन्ता हि दिशो दिशो वै सम्राट्' इत्यादिना। ततश्च श्रद्धातव्यमेवैतदेव