________________
द्वितीयविशिका
२६
नैतस्यान्तोऽस्ति, पूर्वोक्तेभ्य एव हेतुभ्य । एवमेव धर्माधर्मयोरपि ज्ञेयाऽनाद्यनन्तैव स्थिति । एतस्य कायत्रयस्य प्रमाणप्रसिद्धि तु वक्ष्यामोऽग्रत पञ्चास्तिकायसिद्धौ । तेन नात्र तच्चर्चा । यद्यपि कालत्रिकस्यैकत्वविवक्षया तस्यानाद्यनन्तत्व शक्येत प्रतिपादयितुमजीवत्वात्तस्य, पर विचारणीय तत्र स्याद्-यन्न समय व्यतिरिच्य कालो नामाऽस्ति । प्रतिपाद्येतानागताद्धादिवत् तस्यानाद्यनन्ततोपचरिता, पर सत्यनुपचरिते उपचरितपदार्थाश्रयिणी प्ररूपणा न युक्तिसङ्गतेत्येवमुपन्यासोऽनागताद्धातीताद्धयोरुपन्यासस्तु तादृग साधनन्तानादिसान्तस्याजीवस्यानुपलम्भादित्यल विस्तरेण । तथा चाजीवानधिकृत्य क्रमेण सादिसान्त-साधनन्तानादिसान्तानाद्यनन्तलक्षण स्थितिचतुष्क क्रमग एव पुद्गलानागताद्धातीताद्धास्तिकायत्रिकमाश्रित्य प्रतिपादितम् । तत्प्रतिपादनेन द्रव्यलोकप्ररूपणावसरे 'नित्यमनित्य च यद् द्रव्य, तद् द्रव्यलोक जानीही ति निपुणमतिगम्यतया पृथक् प्रतिज्ञातमभूत् तत् सुकरत्वाय व्युत्पादितम् । न च शङ्गनीयमेतद् यदुत-काललोकाभिधेयमेतत्, यतो यदा स्थितिमधिकृत्व व्याख्यायते, तदा स्थितिमता मुख्यत्वेन द्रव्यलोकनिरूपणागता, यदा तु कालत्वेनैव स्यात् प्राधान्य, स्यात्तदा काललोकतेत्यलमप्रस्तुतेन । अथोपसजिहीर्षव आहु -'जीवाजीवठिई चउह'त्ति । तत्र जीवा अजीवाश्च सामान्यत पूर्वोक्तस्वरूपास्तेषा स्थितिविवक्षितरूपेणावस्थानकालञ्चतुर्धा-चतु प्रकार पूर्वोक्तरीत्या ज्ञेयेतिशेष । यद्यपि अत्र जीवत्वेन जीवाना पुद्गलत्वेनाजीवाना पुद्गलानां चानाद्यनन्तत्व वक्तु शक्यते तथापि पर्यायापेक्षयतत्स्थितिप्रतिपादनपरतयवमभिहितवन्त । न च धर्माद्या द्रव्यभूता आत्ता अन्त्ये इति । तेषामपि परिणतेरेव ग्रहणात् । यद्वाअन्योऽन्यं तेपां त्रयाणा सम्बद्धत्वेनानाद्यनन्तकालावस्थानमपेक्ष्य