________________
द्वितीयविधिका
तासामेव स्वतन्त्र प्रामाण्याभ्युपगम कृत स्यादन्धितविवेकदृशामिव मिथ्यात्वपटलेन, किन्तु सर्वज्ञप्रणीतागमानुसारितयैव तत्प्रामाण्याभ्युपगमान्न किञ्चिदपि नोद्यम् । वस्तुतस्तु स्वत - सिद्धप्रामाण्यस्यापि श्रीजिनागमस्य सवाददर्शनमपरेषा तदाग्रहग्रथिलानामपि तद्वस्तु - सत्यताज्ञापनायैवेत्यलमप्रस्तुतेन । न चात्राऽऽकागस्योत्पत्तिरुक्ता, किन्तु प्राणप्रचारणलक्षणवायुसञ्चाराय शरीरान्तर्गता नाड्य एवात्मना योगादाकाशवत्य शुपिरत्वादाकाशगव्देनोक्ता । दृश्यन्ते चैतज्ज्ञापकानि वाक्यान्यन्यत्र । यथा प्रश्नोपनिषदि-'तस्मै सहोवाचाकागो ह वा एप देवो वायुरग्नि राप' इत्यादि, 'सप्राणमसृजत प्राणाच्छ्रद्धा ख वायुर्योतिरित्यादि । मुण्डके च-'एतस्माज्जायते प्राणो मन सर्वेन्द्रियाणि च खं वायुयोतिराप'इत्यादि, तैत्तिरीये-'अन्नादन्नरसमयात् प्राणो व्यानोऽपान आकाग'इत्यादि । अत एव चात्मानं प्रज्ञापयन्ती जगाद श्रुति -'यस्मिन् द्यौ पृथिवी चान्तरिक्षमोत मन. सह प्राणैश्च सर्वै'रित्यादि । तथा दिन श्रोत्र भूत्वा कर्णं प्राविशत्', छान्दोग्ये च-अय वावस योऽन्तहदय आकाशस्तदेतत्पूर्ण'मित्यादि,बृहदारण्यके तु'आत्माश्वस्य मेध्यस्य द्यौ. पृष्ठमन्तरिक्षमुदर'मित्यादि । यहा'मनोऽन्तरिक्षलोक' इत्यादिना निर्णय निर्णयविचक्षणैर्यदुत-नेयमाकागलक्षणस्य भूतस्योत्पत्ति व्यावर्णयित्री श्रुति , किन्त्वौपचारिक कञ्चिदेवाकाश, कथमन्यथाऽग्नेरपामुद्भव इति प्रख्यापने प्रस्वेदोत्पादो ग्रीष्मेण जायमानो दृष्टान्तयिष्यत् । तन्न श्रुतिविरोध आकागस्यानादित्वे । अत एव च स्वाभाविकात्मस्वरूपवर्णने उज्जगार श्रुति रवाय्वनाकागमसङ्गमरसमगन्ध'मित्यादि । यद्वा-तस्यामेव ब्रह्मानन्दवल्ल्या प्रतिपादितमेव शारीरमात्मानमभिप्रेत्य-आकाश आत्मेनि । तन्नाग्रह. कार्यो विपश्चिताऽऽकागस्योत्पद्यमानत्वे । एवं