________________
द्वितीयविशिका
२४
द्रव्य किंचनेति । सर्वेपामप्यनित्यत्वमापाद्यम नं न नः भर्ति विदध्याल्लेशतोऽपि, तनावयवित्वेऽभ्युपगम्यमाने क्षुण्णमीक्ष्यते किञ्चिदस्तिकायानामित्यल विस्तरेण । ते चास्तिकाया धर्माधर्माकाशाख्या अनाद्यनन्ता। यतो न तेषामादिनिरुपादानत्वात् निर्मयत्वात् अरूपित्वाच्च । अन्यथात्मनामपि समुत्पत्ते. स्वीकरणीयत्वापत्ते , ब्रह्मणोपि वोत्पादाभ्युपगमप्रसङ्गात् । न च तन्नात्मा सुखादिसमवायिकारणतावच्छेदकतयाऽऽत्मसिद्धेनित्यस्य स्वरूपयोग्यस्य फलावश्यम्भावनियमात्तस्य सार्वदिकमुखाद्यभावादिति वाच्य । चेतनावच्छेदकतया सिद्धाया आत्मजातेस्तत्र स्वीकारावश्यकत्वात् । नच निर्जान ब्रह्मेति, नित्यं विज्ञानमानन्द ब्रह्मेति श्रुतिसड्लोचापत्ते । अज्ञानाभाव उपचरित ज्ञानमिति चेन्, न उपचारो हि सति बाधे मुख्यार्थस्य। न च निर्धर्मत्वश्रुत्या बाधः,औपाधिकधर्माभावमात्रप्रतिपादनपरत्वात् प्रकृतश्रुतेरिति । न ज्ञान करिपत तस्मिन् । न चैप नियम प्रामाणिको नित्यस्येत्यादि । कारणाभावे हि न कल्पकोटिभिरप्युत्पद्यते कार्यम् । न चास्ति नियमोऽसावपि यदवश्य भवेद्यो ग कारणोग्याना, अनादिस्थितिमतोऽप्यात्मनो मुक्तियोग्यत्वेऽपि नैवापतित कारणयोगो। यद्वा-अनादेरप्याकाशस्य न कदाचनाऽप्युद्भवति चेतना, स्वरूपयोग्यता नाति ब्रह्मण्यप्यदृष्टाभावे तथाभ्युपगमे का क्षतिर्भवताम् । न च 'आत्मन आकाश सम्भूत' इतिश्रुत्या विरोध इति । नहि सर्वा अपि श्रुतयो यथार्था एव सन्तीत्यस्माक ग्रह , किन्तु तत्प्रणेतणा यत्किञ्चिज्ज्ञत्वेन परस्परविरुद्धार्थभाषित्वेन हिंसामयानुष्ठानाधिष्ठायत्वेन दुर्बुद्धिपरिग्रहाच्चाप्रमाणमेव ता , किन्त्वनाग्रहादेव सत्यतीवाभिलापादेव वा क्वचित् क्वचित् सवदन्ती व्याख्यायते दय॑ते वा प्रामाण्यतया । ' न चैवमर्धजरतीयन्यायानुधावन स्यात्तद् यदि