________________
द्वितीयविशिका
२३
Aar
स्वपक्षं समूलघात हन्तुमलम्भूष्णुर्जातः । वस्तुतस्तु स्वीक्रियत एवात्माकाशादे. कथञ्चिदनित्यता। नहि सर्वथा नित्यम नित्य वा वस्तु समस्ति समग्रेऽपि भुवने, सर्वेषा सतामुत्पादव्ययग्रीव्याक्रान्तत्वेन कथञ्चिन्नित्यानित्यल्पत्वात् । ननु कथ तहि घटादिप्वेव नष्टोऽयमिति व्यपदेश , उपलभ्यतेऽपि च तेषामेव दृश्यमानानां नाशो, नात्मादीनामिति चेत् । सत्य, 'घटत्वादिक हि परिणामो द्रव्यस्य, तन्नागवदात्मादेरपि मनुष्यत्वादिपर्यायापेक्षयाऽस्त्येव तथात्व,नष्टो मनुप्यो,मनुष्य उत्पन्न इति व्यवहारस्य जागरूकत्वात् । एवमेव घटपटादिनाकागस्यापि पर्यायेणास्त्येव नाशो । यदेवाकाशं पूर्व यस्य पटादेरवगाहमदात् तदधुना नैवविध, घटाद्यपसारणात् । व्यपदिश्यते चात एवाभूदत्र घटादिरिति । न चैकत्वादाकागस्य भ्रान्तोऽय व्यवहार इति, तदवच्छेदेन तु तथात्वाभ्युपगमस्यावश्यकत्वात् अन्यथा कथमुपपादनीय इह न घट इति व्यवहार प्रामाणिकोऽपि । तथाच घटावगाहनदातृतयाऽतीतो योऽसौ परिणाम , स नष्ट इत्याकाशादेरप्यनित्यता स्पष्टव कथञ्चित् । नन्वेव पर्यायाणा प्रतिक्षण परावृत्तिभावात् स्पष्टव क्षणिकतेति चेद्, अस्तु - का नो हानिः, पर्यायापेक्षया क्षणिकत्वेऽभ्युपगम्यमाने नहि नो विद्वेषः, किन्तु सर्वथानाश एव प्रतिषिध्यते, अवस्थाने च द्रव्यस्य नव निरन्वयो नाश । कार्यता च समस्तापि पर्यायरूपैव । न चास्ति . पर्यायाणामनेकानामेकाश्रयत्वे - विरोध , अनन्तोत्पादव्ययानामेकस्मिन् समये एकस्मिन्नेव वस्तुन्यभ्युपगमादाहुश्च मिथ्यात्वान्धतमसाधरीकरणाधिगतान्वर्थाभिधाना दिवाकरसूरय -
। 'एगदविअस्स बहुआ एगसमयंमि हुति उप्वाया। उप्पाय। समा विगमा विइओ उस्सग्गओ नियम'त्ति । नच कार्यतारहित