________________
द्वितीयविशिका
ह्यवयवित्वमिति चेत्, स्वकल्पनाकल्पितेन नार्थमिद्धिः । यतोऽवयववत्त्वमात्रमवयवीत्यस्यार्थ. । यद्वा क किमाह ? अवयवारयन्वमपि भवतु, अमर्तद्रव्याणामपि परिणामाभ्युपगमात् । स्यादादिनेति चेदवयवाना तथाविधानादितापरिणती कथद्वार दिलयो-नादितायाः, 'रूपिष्वादिमानि'ति वचनाच्छेपाणामनादिपरिणामात्, अन्यथा कथडारमेकाद्यवयवावच्छेदेन सर्वव्यापितयाऽभ्युपगते भवद्भिरात्माकाशादौ ज्ञानशब्दादेरुत्पत्ति । नहि निरवयवे सर्वथा स्यादवच्छेदक परमाणोरिवादिमध्यान्त्यविभाग इति । न च वाच्यमवयवित्वेन नाशिन्वापत्तेरनित्यता स्यादेषामिति । नहि मूर्त्तानामवयविना घटादीना विनाशो दृप्ट इति सर्वेऽप्यवयविनस्तथेति कल्पयितु युक्त, सूर्यचन्द्रादेरदृश्यमाननाशतया त्रुटेर विनाशाभ्युपगमाच्च कैश्चित्, अवयवारवावयविना म नामपि कथञ्चिद् वैचित्र्योपगमस्यावश्यकत्वात्, अन्यथा निग्वयवस्याणोरन्यद्रव्यारम्भकत्वनियमेन किमिति नाजीकरणीयं स्याद् निरवयवाणामात्माकाशादीनामन्यद्रव्यारम्भकत्व, न चैतदभ्युपगम्यते इति, मूर्नामूर्तयोर्वैचित्र्यं यथाऽत्र - तथैवावयवित्वेऽपि सति स्यात्तदा को विरोध.? । अन्यच्च-नावयवित्वेन नाश्यता उत्पत्तिमत्त्वेन वा, किन्तु वन्ध कारणवैकल्येन । अन्यथा द्वितीयसमय एवावयवित्वेन कार्यस्य नाशापत्ति स्यात् । अत एव च न तयोग-- नाशमात्रेण कार्यनाशाभ्युपगमः, किन्तु सयोगविशेषनाशेन, विशिष्टता च तद्व्यपदेशनागकत्वेन । नहि तन्तुमात्रछेदेन पटो नष्ट इति, प्रत्यभिज्ञानाद्यभावापत्ते । न च, भ्रान्त तत्, तथाव्यवहारस्य प्रामाणिकैरपि क्रियमाणत्वाद् । अन्यथा प्रतिक्षणमन्यान्यावयवगमागमेनावयव्यन्यत्वस्वीकारेण स्पष्ट क्षणिकवादाभ्युपगमः स्यात् । - स्वीक्रियते चेदात्मादीनामनित्यप्रसञ्जनाय क्रियमाण उपक्रम