________________
द्वितीयविशिका
२०
,
कालोऽतएव 'जीवा चेव अजीवा चेव'त्ति व्यवस्थितं पारमार्पम् । वाचकपादा अपि 'कालश्चेत्ये के' इत्यनेनारुचिमाहुस्तस्य द्रव्यत्वे इति व्याचख्यु, व्याचख्युश्च प्रत्याचक्षाणा यदुत - समयमात्रत्वेन तस्यास्तिकायत्वानापत्तावपि जगद्वृत्तित्वेन कथ न सामयिक्यस्तिकायता । यतो विचार्यता स समयलक्षण कालो भवदभिप्रेत सर्वत्रैकत्र वा कुत्रचित् ?, सर्वगत्वे सर्वव्यापकत्वे तस्य द्रव्यत्वाभिमानात् स्पष्टैवास्तिकायता । नह्यणुर्भवति सर्वव्यापक । स क्षणिक इति त्वन्यदेव | एकत्रावस्थाने तु न सर्वत्र वर्त्तना, तदभावे च कुतस्तरा तेपा सत्त्वं वर्त्तनादियुक्तस्यैव सत्त्वात्त् । 'उत्पादव्ययश्रीव्ययुक्त स' दितिवचनात् । अन्यच्चाऽस्य द्रव्यत्वे धर्माधर्मादिवदवगाहनाद्यपि स्याद्वक्तव्यम् । नच तत् कुत्राप्युपलभ्यते सम्भवति वा । अत एव चानाख्यायैव कालस्य द्रव्यता 'द्रव्याणि जीवाश्चे 'ति द्रव्यसूत्रे उपकारककथनमकारि पूज्यै । नच वाच्य कथ तस्य द्रव्यत्वाभावे उपकारविधायकता ? । उपचरितेन तेन किं कार्यमितिदर्शनार्थत्वात्तस्य । भवति च प्रयोजनार्थ एवोपचारो, निष्प्रयोजनकोपचारस्यासम्भवात् । तत्त्वमत्रत्य बहुश्रुता विदन्ति । अनागताद्वा साद्यनन्त इत्येव प्रकृतम् । चकार समयभेदेन सादिसान्तोऽपि काल । समुदितानागतापेक्षया युक्त साद्यनन्तत्वमिति ज्ञापनाय । अत एव चास्तिकायत्वाभावेपि विवक्षितसमुदायापेक्षया वित्रक्षितधर्मतोपपत्ति । न चादिभङगो वार्त्तमानिक काल उदाहृतोऽत एवोपचाराद्धेतो सम्भवति । अनुपचरिते उपचरितदर्शनस्यायुक्तत्वाद् विचित्रा वा सूत्रगतिरित्येवाऽत्र कारण भवेत् । अथ तृतीयभङ्गदर्शनायाहु - 'तीयद्ध'त्ति । तीतोऽनीतोऽद्धाऽतीताद्धा । अत्र च तीतगब्दोऽतीतार्थतयोक्तो निर्युक्तिकाराणां परमाप्तत्वान्नापशब्दोऽयमिति । प्रयुक्तश्चायमन्यत्राप्यभियुक्त - 'तीतादिपरिच्छेद