________________
द्वितीयविशिका
१८
ANA~~n
वतिष्ठते। तावत्येव 'च स्थिति स्कन्धानामेकरूपेणावस्थाने । स्निग्धरूक्षत्वाद्धि बन्ध । स्निग्धतमत्व च पर्यायः, पर्यायाणा च नाविचलत्व । ततो भवत्येवासडख्ययेनानेहसा भेदस्तथा भिन्नः स्कन्धादिरिति युक्तैव सादिसान्तता तेपा, परमाणूनामपि भेदादुत्पत्तेन हि स्कन्वदशायामणुता । तथा सति अचाक्षुषत्वप्रसङगात् स्कन्धानामपि, परमाणुप्रचयरूपत्वात्तेषा । - असत्या 'चाणुताया स्कन्धावस्थायामणूना, सा भेदादुपजायते इति तेपामुत्पत्तिस्तथापेक्षया । यदा च पुनरन्य परमाणुभि स्कन्धर्वा सयुज्य स्कन्धतया परिणमन्ति तदा स्पष्ट एव परमाणुत्वाभावाद् विनागस्तद्रूपतया तेषा। नचातिवृत्त्यासडख्येय कालमवतिष्ठते परमाणुरपि तद्रूपतया, ततोऽवश्य परैरणुभिः स्कन्धेर्वा सयुज्य स्कन्धत्वारम्भनियमात् स्निग्धरूक्षान्यतरगुणवत्त्वादणूना परिमितत्वाल्लोकस्य प्रतिजातीयाऽनन्तानन्तस्कन्धसमूहयुक्तत्वाच्च लोकस्यावश्य तेषा स्कन्धीभाव इति स्कन्धानामणूना च तदवस्यया सादिसान्तत्वमेव युक्त । पुद्गलत्वेनाऽनाद्यनन्तस्थितिकत्वेऽपि तेपा पूर्वोक्तापेक्षया सादिसान्तत्वमविरुद्धमेव, पूरणगलनभावस्यानित्यत्वात् । गतिविचित्रा सूत्राणामिति · वा स्कन्धाणुरिति वक्तव्ये पुद्गला इत्यूचिवास साधारणाभिधानेन । अथ द्वितीयं भङ्ग दिदर्शयिषयाहु -अणागयद्ध'त्ति । न आगतो वर्तमानतामित्यनागत । 'एज्यश्च नाम सं भवति-यः प्राप्स्यति वर्तमानत्व'मितिवचनात् । स चासावद्धा च कालः । अत्यते इत्यत् ता ज्ञानं पर्याय वा धारयतीति अद्धा । अव्ययमिद अनागताद्धा असौ च सादि. सन्ननन्त एव । यतो वार्त्तमानिको हि क्षणोऽधनेति । ततं परेषां समयादीनामनागतता युक्तवेत्यस्यादिर्न चास्ति तस्या न्तो,वर्तनादिहि तस्य लक्षणं ।'न च कदाचनापि भविष्यति सम्भवि