________________
द्वितीयविशिका
-
-
इति । कथ नष्टोऽसी भाव इति चेद्? भवचरमसमयेन सिद्धत्वाद्यसमयेन वेति गृहाण । घटयोग्यता हि मृदो घटोत्पादेनैव नाश्यते । चतुर्थभडगदर्शनाय तद्वत आहुः- 'अभविअ'त्ति । भव्यविपरीतोऽभव्य. । स हि नवाप्नोति निस्सीमसुखधामाऽपवर्ग, घटत्वमिव तन्तव । नहि स्वभावोऽर्हति पर्यनुयोगम् । नहि तेषां निर्जरा नास्ति, ग्रन्थि यावदनन्तश आगमनस्य, द्रव्यत श्रुतसम्यक्त्वस्य च शास्त्रकृद्भि. अनेकश' प्रतिपादनात् । अभव्यता च न कदाप्युत्पन्ना, पूर्व विद्यमानभव्यत्वस्याभव्यत्वावाप्ती स्यादेव । न च भवत्येवमेव, नचापि नश्यति कदापि । यदि हि अभव्यत्वपरित्यागेनावाप्तु स्याच्छक्य भव्यत्वं, स्यान्नाशोऽस्याः। न चासो सम्भवतीत्यनाद्यनन्तोऽसौ भाव. । एव चतुर्धा क्रमेण सादिसान्त-साधनन्ताऽनादिसान्ताऽनाद्यनन्तरूपाश्चतु प्रकाराः स्थितयो दर्शिता. क्रमशो गतिमत्ता - सिद्धता - भव्यत्वाभव्यत्वलक्षणाना तथास्थितिमता दर्शनेन । अथैवमेवाजीवस्यापि चतुर्विधा स्थिति दिदर्शयिषव आहुः-'पुग्गल' इत्यादि । तत्र पूरणगलनधर्माणः पुद्गलाः । पृषोदरादित्वादिष्टरूपनिष्पत्तिः । न हि धर्मादीनामस्ति प्रदेशैरुपचयोऽवस्थितपरिणामत्वात्तेषा। एकद्रव्यत्वेनान्यद्रव्याभावात्तादृक्प्रचयोऽपि नैव, जीवस्यानेकद्रव्यत्वेऽपि पद्मनालतन्तुवदवबद्धत्वादन्योऽन्यं नान्यस्मिन्नन्यस्य प्रचय । नच विप्रयोगोऽपि प्रदेशाना तेषा, येनापचयो भवेत, अनाघेकरूपत्वेन प्रदेशा भवन्ति जीवस्य विप्रयुक्ता न ते परमसम्वद्धाः । नचान्यः प्रदेशः सयुज्यते इत्यवशेषात् पुद्गलानामेव सडघातभेदयोग्यत्वादुपचयापचयी भवतः । तेनैत एव पूरणगलनधर्माणस्त एव च पुद्गला उच्यन्तेऽन्वर्थसडज्ञाज्ञापनार्थमिदम् । इमे च सादिसान्ताः । यत. स्कन्धस्तावन्नानादिकः कश्चित्, सङघातरूपत्वात् । सडघातश्च नातीत्यासडख्येयं कालम