________________
द्वितीयविगिका
२२०
wwwww
अन्यथा दण्डादेर्घटादिहेतुतैव पलायेत योजनाना गतम् । अन्यादृगे तद्धेतुताया तु महीयस्यभिनिवेशिता-यदसिद्धसाधनाय सिद्धस्य जर्जरीकरणं, पलायित च विजातीयकृत्यादिना विजातीयकार्योत्पत्तिकक्षीकारात् सामान्य कार्यस्य कृतिजन्यत्वमित्यनेनेश्वरसिद्ध्यै साध्यमानेनानुमानेन । इदमेव च परिणामसाम्राज्य-यज्जातोऽप्यन्यथात्वेन यथार्थतया प्रामाणिकैः प्रत्यभिज्ञायते घटादिः । न चेदमेकान्तेन नित्येऽनित्ये वा पदार्थेऽभ्युपगम्यमाने घटाकोटिमाटीकते, आद्यस्य परिणामस्यैवाभावात्, अन्त्यस्य परिणामाधारस्यैवाभावाच्च । उपालभ्यते च विष्णुमित्रादिदेवदत्तादिना-यदसौ मे घट-' स्त्वयैव छिद्रित इति । एवमेव भग्न-खण्डित-ध्वस्तेत्यादिनानात्वसाधनमपि विहायादृष्टान्याय्यकल्पनाकल्पनरहिलता यथार्थतया भावनीयम् । नन्वस्तु परिणामवाद प्रमासिद्ध., पर प्राक् प्रतिपादितकापोतादि वर्णपरिणामश्छायान्धकारादीना च परिणामता न कथञ्चनापि प्रमाणसङ्गतिमञ्चेत् इति चेत्, न तावच्चित्ररूपसत्त्वे विवाद प्रामाणिकानाम्, अवयवभेदेन भिन्न भिन्नरूपवत्यप्यवयविनि चित्ररूपत्वाङ्गीकारात् । येऽपि चावयविनो नीरूपत्वमुररीचक्रु तेऽप्यवयवरूपस्य समुदायेनावयविनि भानमभ्युपगतवन्त एव, अन्यथा चाक्षुषप्रत्यक्षविरोधापातात्। न ह्यरूप वाय्वादिवत् चाक्षुषतामापद्यते । न च रूपवदवयवारब्धोऽवयवी नीरूपो भवितुमर्हति, नीलघटादेरप्यरूपत्वप्रसङ्गात् । न च नकोऽप्यणुस्तत्र नानील, स्पष्टतापि न तस्यासम्भविनी। अन्यच्च-न कथञ्चिदेकत्वाभावेऽनेकानामवयविरूपाणा स्वीकाराभावे चित्रमिदमिति भवेत् प्रत्यय । धान्यराशिरपि सर्वथा भिन्न भिन्नस्थ-- लीयविप्रकीर्णधान्याना तथाप्रत्ययाभावात् भेदाभेदे भवतीति । न चावयव्यपेक्षयकत्वस्यावयवापेक्षया नानात्वस्यानुभवोऽपि विरुध्ये