________________
द्वितीयविंशिका -
'अज्ञानपाशपिहितं पुरातनं कर्मवीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माडकुरं जन्तो.' ॥१॥ वन्धहेतवोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपा क्षीणा एव, तदन्तरेण सिद्धत्वाभावात्, क्षीणेषु च तेषु कुतस्तरा विपाक, तदसत्तायां जात्यायु गानां सुतरामभाव एवेति सिद्ध सिद्धानामनन्तस्थितिकत्वम् । अत्यैरपि 'नित्य विज्ञानमानन्द ब्रह्मेति अनावृत्तिशब्देन चैतदेव गीयते । अत एवैतल्लक्षणमेव प्रोच्यते, यदुत
___ 'यन दु खेन सम्भिन्नं, न च भ्रष्टमनन्तरं । अभिलाषापनीत च, तज्ज्ञेय परमम्पद'मित्यादि । बृहदारण्यकेपि-‘स लोकमागच्छत्यशोकमहिम तस्मिन्वसति गाश्वती. समा' इत्याद्युक्तमेवेति । अनेन च य आहुरनादिसिद्धत्व केपाचित्ते निरस्ता. द्रष्टव्याः । यतो हि सिद्धत्वमेव तेषामनुपपन्न, प्रथम असिद्धत्वे सत्येव सिद्धत्वभवनात्, अन्यथाऽतीतकालीनक्तप्रत्ययायोगात् । बन्धननिरोधबद्धव्यवच्छेदाभावे हि न सिद्धत्वं, न चासावनादिरिति कथं सभविनी सिद्धताऽनादिकाललग्न एव केषाचित् कर्ममल इति तेऽनादिसिद्धा इति चेन्ननु किं न सर्वे तथा । नहि विचित्रत्वं युज्यते, जीवत्वाविशेषात् । क्षय एकेपा कथ ? कथ न सर्वेषामिति तु नैव नोद्यम् । ये ये कर्मक्षयसाधनसाधितात्मस्वभावास्तेषामसौ जातोऽस्ति च तथाभव्यत्वेन वैचित्र्यं तेषा। न चानादिसिद्धत्वसाधकः कोऽपि विशेषः। केवलज्ञानादिमन्तश्च तेऽभ्युपगमनीया.। न च क्षपकश्रेणिसाधनकमोहक्षयाभावे। न च क्षपकश्रेणिरन्यस्य चरमभवेभ्यस्तन्नानादिका. सिद्धा. सम्भवन्ति। सम्भवेयुश्च प्रवाहतस्ते तथा । यतोऽनादिहि ससारो, न च ससारसद्भावे षण्मासाधिको विरहश्च न भवति सिद्धभावमापत्ती कस्यचिज्जीव