________________
द्वितीयविशिका
wwwwwwwww
von
सूदनसमर्थज्ञानावरणीयाद्यष्टविधादृष्टदुष्टसृष्टिसमूलकापकषणावाप्ताव्याबाधाद्यपरिमितविशेषणविशिष्टानन्दमयपदत्वात् निष्ठितार्था भवन्ति स्मेति सिद्धाः । न च वाच्य कर्मणामनादित्वान्न स्यात् क्षयः, सर्वथाऽनादित्वस्यानन्तत्वेन व्याप्तेरिति । न तावत् किञ्चिदपि कर्मानादि, तेषामुत्कृष्टतोऽपि सप्ततिसागरोपमकोटिस्थितिकत्वात् । तथाच नश्यन्त्येव सर्वकर्माणि स्वस्वस्थितिक्षयेणागिपि ससारे, पर नवीनवन्धसद्भविान्न निर्वतिरुत्पद्यते । न च प्रवाहेणानादेनं व्युच्छेद । अतीतस्यानादेरपि प्रवाहेणास्त्येव स, वर्तमानक्षणे तदन्तसद्भावात् । न चादृष्टाना क्षय एव न, तथा सत्यदृष्टाभ्युपगमवैयर्थ्यात् बन्धाभावप्रसङ्गाच्च । अन्यच्च-यथाहि मिथ्यात्वादिभिर्भवत्येषा बन्धस्तथैव तत्प्रतिपक्ष भूतैः सम्यक्त्वादिभिनिर्जरया च कथ न तन्नाश?, यो हि येनोपचयमा प्नोति, तत्प्रतिपक्षसेवनया सोऽपचयमप्याप्नुयादेव । यथाऽपथ्यसेवनया वृद्धोऽप्यामय तत्प्रतिपक्षेण क्षयमुपयाति । नच धातव इव शरीरस्य जीवस्याधारभूतमदृष्ट, किन्त्वीपाधिकमेवेति । तेषा च सादित्व भवक्षयानन्तर भावात् । न च तेषा तत्त्वक्षय कदाचिदपि समूलकाषकषणात् । कर्मद्रुमाणा नहि कर्मबीजदाहे भवरूपो भवत्यडकुरोद्गम । यदवाचि
__ 'दग्धे वीजे यथात्यन्त, प्रादुर्भवति नाडकुरः। कर्मबीजे तथा दग्धे, न रोहति भवाड कुरः ॥१॥ न च कर्मरहितस्य पुन. कर्मणा सङ्गः, आकस्मिकत्वापत्तेर्वन्धस्य । तथाच कृतनाशाकृताभ्यागमदोपो। न च क्षीणकर्मणां तृष्णाद्यपि, कर्मविकाररूपत्वात्तस्य, तदभावे च कुतस्तरा भवावतारो । यदाह