________________
द्वितीयविशिका
१९९
शतप्रतिक्रान्तिविस्तृतमेव सौमनसम् । ततोऽपि पत्रिशत्सहस्राण्यारुह्य चतुर्नवतिचतु.शतप्रतिक्रान्तिविस्तृत पाण्डकवनमिति । नन्दनसौमनसाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिविष्कम्भस्येति । अत्र चानवबुद्धभाष्यकाराभिप्राया केचन व्याख्याकारा विप्रतिपद्यन्ते, व्याख्यान्ति चैव-नन्दनादूर्ध्वं सौमनसाच्चाध. किल मध्ये एकादशैकादशयोजनसहस्राण्यारुह्य योजनसहस्रं परिहीयते विष्कम्भस्येति, ऊवं सौमनसाच्चाधो नन्दनवनान्न सूरिणा परिहाणिरुक्ता, यावदेपा च परिहाणिराचार्योवता न मनागपि गणितप्रत्यया सङ्गच्छते। अग्रतश्च व्याख्याकारापसदता ध्वनद्भिरुदित स्वस्य-तत्राचार्योक्तपरिहाण्या नैकोऽपि विष्कम्भ आगच्छति। न चैतावसत्यावागमेऽधीतत्वात् श्रृङ्गग्राहिकयेति, गणितशास्त्रविदो हि परिहाणिमन्यथा वर्णयन्त्यार्षानुसारिण इत्यादि च। तत्सर्वमसमञ्जसमेव, यत सिद्धान्तितो विष्कम्भ उभयत्र क्रमेण व्याख्याकारैरेव सौमनसेऽन्तविष्कम्भ. सहस्रत्रय शतद्वय च द्विसप्तत्यधिकमण्टौ चैकादश भागा, बहिविष्कम्भ. पुनः सहस्रचतुष्टय शतद्वय च द्विसप्तत्यधिकमप्टौ चैकादश भागा योजनस्येत्यादि । न चैते विष्कम्भा सूरिव्याख्यानात्कथमपि दूरवत्तिन , यत सूरेहि सिद्धान्तोऽय यदुत- योजनसहस्रस्य धरणितलावगाढस्य प्रदेशहानिरहितत्वान्नवनवतिः सहस्राणि हानिमन्ति योजनानि मूले, योजनदशसहस्रीविस्तृतरुपरि च योजनसहस्रविस्तृतेर्हेया नवयोजनसहस्री। तथा च प्रतियोजनमेकादशो भागो हीयते योजनस्य, पर तथागणने नन्दनसौमनसयो प्रत्येक पञ्चशतविष्कम्भत्वात्पूर्वानुसृतपरिमाणाद्विशेषेण योजनसहस्रद्वय पात्यम्, तच्च न केनाप्युपायेनैकादशसहस्रपातापत्ते । ततश्चैकादशसहस्रयोजनान्यारुह्य नन्दनसौमनसाभ्या प्रदेशहानि.