________________
द्वितीयविशिका
१९८
nangan
वर्षविदेहरम्यकहरण्यवतैरावताख्यानि पूर्वापरायतहिमवन्महाहिमवन्निपधनीलरुक्मिशिखरिवर्षधरविभक्तानि क्रमेण चतुर्गुणवृद्धान्याविदेहेभ्य , परतो हीनानि च विष्कम्भात् । आद्य तु सपटकलषविशयोजनपञ्चशतविष्कम्भम्, पर्वता अपि सद्विपञ्चाशं सहस्र विस्तीर्ण आद्य द्वादश च कला । धातकीपुष्करार्द्धयोस्तु द्विर्द्वि क्षेत्रपर्वता इपुकाराभ्यामुत्तरदक्षिणात्याभ्या विभक्तत्वात् । वृत्तो जम्बूद्वीप आयामविष्कम्भयोर्लक्ष योजनाना, धातकीर्वलयाकारो योजनचतुर्लक्षविष्कम्भ , पुष्कराद्धः पोडश । (लक्षविष्कम्भ) परिक्षेपाद्यानयनोपायश्चैव-विष्कम्भकृतेर्दश गुणाया मूल वृत्तपरिक्षेप । सविष्कम्भपादाभ्यस्तो गणितम् । इप्वावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्व चतुर्गुणस्य मूल ज्या । ज्याविष्कम्भयोर्वर्गविशेषमूल विष्कम्भाच्छोध्य शेपार्थमिषु । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य मूल धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्त तत्प्रकृतिवृत्तविष्कम्भ । उदग्धनुकाष्ठाइक्षिण शोध्य शेषा बाहुरिति । एवमन्तरद्वीपा पूर्ववत् पट्पञ्चाशत् । मेरुस्तु काञ्चनस्थालनाभिरिव वृत्तो योजनशतसहस्रमवो धरणितलमवगाढो नवनवत्युच्छितो दशाधो विस्तृत. सहस्रमुपरीति । त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुभिर्वनर्भद्रगालनन्दनसौमनसपाण्डकैः परिवृत.। तत्र शुद्धपृथिव्युपलवज्रगर्करावहुल योजनसहस्रमेक प्रथम काण्ड, द्वितीय त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकवहुल, तृतीय षट्त्रिंशत्सहस्राणि जाम्बूनद, वैडूर्यवहुला चाऽस्य चूलिका चत्वारिंगधोजनान्युच्छायेण, मूले द्वादश विष्कम्भेण. मध्येऽष्टावुपरि चत्वारीति । मूले वलयपरिक्षेपि भद्रशालवनम् । भद्रगालवनात् पञ्चयोजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृत नन्दनम् । ततोऽत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजन