________________
द्वितीयविशिका
काभिप्रेतानि गुणपर्यायवद् द्रव्यमिति लक्षणलक्षितानि द्रव्याणि, त्रिलक्षणरहितत्वात् । यच्च स्यात् त्रिलक्षणयुक्त तदेव सदिति व्यवहार्यम् । न च द्रव्याणि तथेति न तानि सन्ति, द्रव्यशब्दाभिलाप्य तु पूर्ववदेवेति पर्यायाथिकेन गुणसमूह एव द्रव्यतयाऽभिप्रेत इति नेदमयुक्तम् । यद्वा-भूतभविष्यत्पर्याययोग्य वा द्रव्यमिति, यदाश्रित्योच्यते-'भूतम्य भाविनो वा भावस्य हि कारण तु यल्लोके । तद् द्रव्य तत्त्वजै. सचेतनाचेतन कथितम् ।।१।। इति । योग्यताग्रहण च सर्वेपा पर्यायाणामनुभूतत्वादनुभविष्यमाणत्वाच्च, मा भूत् सर्वापेक्षया सर्वदा सर्वेषा द्रव्यतेति, तत एवोच्यते-“एगभवियव द्वाउ य अभिमुहनामगोत्ते य । एए तिन्नि दव्वादेस"त्ति। न च वाच्य कथ तहि
"त वयण सोऊण राया अचियतणुरुहसरीरो। अभिवदिऊण पियर मरीइ मभिवदिओ जाइ ।।१।। सो विणएण उवगओ काऊण पयाहिण च तिक्खुत्तो। वदइ अभित्थुणतो इमाहि महुराहि वग्गूहि ॥२॥ लाभा हु ते सुलद्धा ज सि तुम धम्मचक्कवट्टीण । होहिसि दसचउदसमो अपच्छिमो वीरनामु त्ति ॥३॥ न वि तेह पारिवज्ज वदामि अह इम च ते जम्म। ज होहिसि तित्थयरो - अपच्छिमो तेण वदामि ॥४॥” इतिवचनाद् वहुतमभवभावित्वेऽपि तीर्थकृत्त्वस्य, वन्दितो भरतेन विद्यमाने त्रिजगदीश्वरे मरीचिभक्त्या । न च नामस्थापनाभावापेक्षया तीर्थकृत्त्व तदा तस्य सम्भवति,यदपेक्ष्य वन्दित स्यात् इति चेत् । सत्य, सुदूरावधानवता लोकवसतिवादिना, नैगमेन तथाविधानात्, तीर्थकरवचनाद्वोल्लसितभावेन वा तथाविहितमिति न व्यवहारानुगतम्, प्ररूप्यते च व्यवहारानुगतमेव । तत एव भविष्यन्त्या शासनवाधाविधायिब्राह्मणपूर्वजाना माहननामधेयाना स्तुतिपाठकाना वध निषिध्य