________________
द्वितीयविशिका
१९४
MAMANA
महासत्तावान् द्रव्यमित्यभिधीयते, गुणसमूहो वा द्रव्यं, पर्यायाथिको हि न द्रव्यं भेदेनाभिधत्ते, किन्तु गुणसमूहमेव । यतो व्याख्यायते
__ "उप्पज्जति वयति य परिणामेति अ गुणा न दब्बाइ । दधप्पभवा य गुणा न गुणप्पभवाइं दबाइ ॥१॥"तिगाथा पर्यायाथिकेनव-यथोत्पादव्ययधीव्ययुक्त हि सदित्युच्यते, द्रव्यस्य च नोत्पादव्ययावभिमतौ द्रव्याथिकेन, न च विनोत्पादव्ययावस्ति पदार्थ इति न द्रव्य पदार्थ, किन्तु गुणा एव । कुत.? इति चेदाहउत्पद्यन्तेऽसन्तोऽपि सतया प्रादुर्भवन्ति, असत आविर्भावस्योत्पत्तिपदार्थत्वात् सतश्चोत्लादाभावात् । तया व्ययन्ते-विनश्यन्ति सन्तोऽप्यभावतामापद्यन्ते, विवक्षितव्यतिक्रमस्यैव नाशपदार्थत्वात्, विवक्षितशब्दानभिधेयत्वस्य वा तथात्वात् । तथा परिणमन्तिचैकगुणद्विगुणयावदनन्तगुणत्वादिनाऽवस्थान्तरमाप्नुवन्ति । के एवमित्याह-गुणाः, अवधारणफलत्वाद्वाक्यस्य गुणा एव । लब्धेऽप्येवकारेण व्यवच्छेदे स्पष्टतार्थमाह-'न द्रव्याणी'ति । न द्रव्याण्युत्पद्यन्ते विनश्यन्ति परिणमन्ति वा, तेषामवस्थितकरूपत्वेन द्रव्याथिकेन प्रतिज्ञानात् "दबठिअस्स सव्व सया अणुप्पन्नमविणट्ठ ति" वचनात् । तथा विलक्षणयुक्तत्वात् स्पष्टमेव द्रव्यमसदिति । ननु तर्हि किमिति द्रव्यमित्याह-'द्रव्यप्रभवा गुणा' इति द्रव्यस्य-द्रव्यशब्दस्य प्रभवो व्यवहारो येभ्यस्ते द्रव्यप्रभवा-द्रव्यशब्दवाच्या' । के ? इत्याह-गुणा अवधारणयोजने गुणा एव । तया च तथा तथा समुदितावस्थामापन्ना गुणा एव द्रव्यशब्देनोच्यन्ते, तेषामेव सल्लक्षणान्वितत्वात् । स्पष्टमेव व्यवच्छिनत्ति-'न गुणप्पभवाइ'ति । गुणाना प्रभवो येभ्यस्तानि गुणप्रभवानि-गुणाश्रयरूपाणीत्यर्थः। किमित्याह-'ने'ति। न सन्त्येवेत्यध्याहार्या क्रिया। कानि न सन्तीत्याह-द्रव्याणि-द्रव्यार्थि