________________
द्वितीयविशिका
१९७ रसगन्धवर्णा गतिहेतुत्व स्थितिहेतुत्वमवगाहनहेतुत्व वर्तमानहेतुत्व चेतनत्वमचेतनत्व मूर्त्तत्वममूर्तत्व चेति षोडश । तत्र धर्माधकिाशेषु गतिहेतुत्वाचेतनत्वामूर्त्तत्वानि स्थितिहेतुत्वाचेतनत्वामूर्तत्वानि अवगाहनहेतुत्वाचेतनत्वामूर्तत्वानि च क्रमेण पुद्गले स्पर्शरसगन्धवर्णाचेतनत्वमूर्त्तत्वरूपाः षट्, काले वर्तमानहेतुत्वाचेतनामूर्तत्वरूपास्त्रय , जीवे च ज्ञानदर्शनसुखवीर्यचेतनत्वामूर्त्तत्वानीति पट् । अत्रेदमवधेयम्-चेतनाचेतनत्वमूर्तत्वामूर्त्तत्वानि स्वजातिविजातिभ्या सामान्यविशेषरूपाणीति सामान्यगुणेषु विशेषगुणेषु चाख्यातानीति षड्विंशतिरप्येते गुणा द्रव्याणामेवेति द्रव्यगुणा इति कथ्यन्ते। द्रव्याणि च धर्मादीनि प्राग् व्याख्यातान्येव"जीवमजीवे." इत्यादिगाथाया समासत । व्यासतस्तु-"पचत्थिकायमइओ" इतिगाथाप्रथमदलव्याख्याने व्याख्यास्यते इति नात्र तन्निरूपणम् । तथा "खित्तपज्जव"त्ति । तत्र "क्षि निवासगत्यो" इति तुदादि , ततो "हुयामाश्रुवसिभसिगुवीपचिवचिध्यम्यमिमनितनिसदिच्छादिक्षी" त्यादिनौणादिके त्रे क्षेत्रमिति । तथा च क्षियन्ति-वसन्ति धर्माधर्मासुमत्पुद्लादयोऽस्मिन्निति क्षेत्रमाकाशलक्षण, "क्षेत्र सकर्षणभूमि शरीरमाकाश च" इत्युणादिवृत्तिः। तस्य क्षेत्रस्य पर्याया • स्वभावविभावलक्षणा गुणविकाररूपा वा, उभयाश्रितत्वात् पर्यायाणाम् । तत्रागुरुलघुत्वाद्या स्वभावपर्याया । गुणविकाररूपास्तु अनन्तासडख्यातसडख्यातभागगुणवृद्धिभागगुणहानिभ्यो द्वादशधा । विभावपर्यायास्तु घटाद्यवगाहदानजन्या । एते च सर्वेऽपि क्षेत्र। पर्याया, आकाशपर्यायत्वात्तेषाम् । यद्वा-क्षेत्राणि भरतादीनि,यदाहु . . "क्षेत्र भरतादी भगाङ्गयो" इत्यादिवचनाद् भरतादि तस्य पर्याया • अवस्थितानवस्थितकालादिक स्वरूपम् । तच्च विस्तरतो जम्बू'.. पप्रज्ञप्तेरवसेयम् । सडक्षेपतस्तु क्षेत्राणि तावद् भरतहिमवद्धरि