________________
द्वितीयविशिका
vwwwer or
www..................९६
शिक्षितो भरतो युगादिदेवेन । तदेतत् सर्व द्रव्यलक्षणमभिप्रेत्योदाहृत महाभाष्यकार:__"दवइ दुयए दोरवयवो विगारो गुणाण सदावो। दव्य भव्व भावस्स भूयभाव च ज जोग्ग ॥१॥” इति । तदेवविधस्य द्रव्यस्य द्रव्यशब्दवाच्यस्य वा धर्माधर्माकाशपुद्गलकालजीवलक्षणस्य गुणा -सहभाविनो धर्माः । एष गुणपर्याययोविशेषो यदुत-सहभाविनो गुणा , क्रमभाविन पर्याया इति । द्रव्याविप्वग्भावेनेति तु . प्रकृतमध्याहार्य वा । तथा च यत्र गुणपर्यायरूपेण निर्देशो धर्माणा तत्र गोबलीवर्दन्यायेन गुणव्यतिरिक्ता धर्मा पर्यायतया ग्राह्या । यत्र च केवला. पर्याया एव व्यपदिश्य रस्तत्र तु यावद्धर्मा अपि पर्यायशब्देन गृह्यन्ते । तथा च यथा द्रव्याथिकपर्यायाथिकभेदेन नययुगल वर्ण्यते, तथा कथ न तृतीयो वर्ण्यते गुणाधिक इति, तन्निरस्तम् । यदादिवाकरपादा - ___ रूवरसगधफासा असमाणग्गहणलक्खणा जम्हा । तम्हा दव्वाणुगया गुणत्ति ते केइ इच्छति ॥१॥ दूरे ता अन्नत्त गुणसद्दे चेव तावपारिच्छ। ज पज्जवाहिओ होज्ज पज्जवे चेव गुणसण्णा ॥२॥ दो पुण नया भगवया दबठियपज्जवठिया नियया । एत्तो वि गुणविसेसे गुणठिअनओ वि जुज्जतो ।।३।। ज च पुण अरहयातेसु तेसु सुत्तेमु गोयमाईण। पज्जवसण्णा नियया वागरिया तेण पज्जाया ॥४।। परिगमण पज्जाओ अणेगकरण गुणो त्ति एगन्था । तह वि न गुणो त्ति भण्णड पज्जवनयदेसण जम्हा ॥५॥” इत्यादि । गुणपश्च सामान्य विशेष भेदेन द्विविधा । तत्र आद्या अस्तित्व वस्तुत्व सामान्यविगेगात्मकत्व द्रव्यत्व प्रमेयत्व प्रदेशत्व चेतनाचेतनत्व मूतत्वममू
तत्व चेति दश,प्रत्येकमष्टाष्टौ,चेतनाचेतनत्वयोर्मूर्त्तत्वामूर्त्तत्वयोश्च , परस्परपरिहारेणावस्थानात् । अन्त्यास्तु ज्ञानदर्शनसुखवीर्यम्पर्श