________________
द्वितीयविगिका
१९३
"इमा समक्ष प्रतिपक्षसाक्षिणा-मुदारघोपामवघोपणा ब्रुवे। न वीतरागात् परमस्ति दैवत, न चाप्यनेकान्तमृते नयस्थिति ॥१॥" तथा-"पक्षपातो न मे वीरे न द्वेष कपिलादिषु । युक्तिमद्वचन यस्य तस्य कार्य परिग्रह ॥१॥” इति । भावलोकस्य प्रकारान्तरताख्यान च 'विवक्षाधीनानि कारकाणी'तिवद्विवक्षाधीनैव वाक्पद्धतिरिति सूचनाय, प्रतिपादितेष्वौदयिकादिषु भावेषु षट्सु ग्राह्यौपमिकक्षायिकक्षायोपशमिकमावत्रयप्रतिबन्धकमलज्ञापनेन सम्यसिद्धिपुरपथप्रवृत्ताना रागद्वेषहासस्यावश्य विधेयताज्ञापनायेति वा ॥८॥ इत्येवमाख्याय द्रव्यक्षेत्रकालभवभावलोकान्व्याख्येयान्, शेष क्रमप्राप्त पर्यायलोक व्याचिख्यासयाहु -
दव्वगुणखित्तपज्जवभवाणुभावे अभावपरिणामे। जाण चउविहमेअं पज्जवलोग समासेण ।।९।।
व्याख्या-तत्र द्रवति ताँस्तान् पर्यायानिति द्रव्य, गुणपर्यायवद्रव्यमित्यर्थ । द्रव्य हि पुरातनान् विहाय पर्यायानवाप्नोति नूतनान्, स्थिरत्वात्तस्य । स्थिरत्वमपि द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यत्वापेक्षयैव । सापि अर्पितानपितसिद्धेरिति । यद्वाद्रूयते-स्ववृत्तिगुणपर्यायैर्मुच्यते नवीनैश्चाश्रीयते, व्याप्यते वा स्ववृत्तिगुणपर्यायरिति द्रव्य गुणपर्यायाश्रयतया । यदाहु -
"गुणाणमासओ दव्व एगदव्वस्सिआ गुणा। लक्खण पज्जवाण तु उभओ अस्सिआ भवे ॥१॥” इति । न च सयोगादीना द्वयाश्रितत्व यतो, न तत एकद्रव्यनिश्रितता युक्ता गुणानामिति । तेपा पर्यायात्मकत्वात् । , यद्वा-द्रो महासत्ताया भव्य योग्य द्रव्य "द्रोभव्ये” इतिवचनात् । यत सद्व्यमिति पठ्यतेऽपि, द्रोरवयवो वा द्रव्य, सदभिधेय पदार्थव्रजो हि महासत्तावानुच्यते, द्रव्य च तदेकदेशत्वादवयव एवेति, विकारो वा द्रोर्गुणवत्तान्वित एव