________________
द्वितीयविशिका
२००
प्रतिपादिता पूज्यपादः । तथा च न कोऽपि विरोध आगमेन गणितपरिपाट्या वा, भ्रान्तिमूल त्वधऊर्ध्वकल्पनमुभयत्र स्वकपोलकल्पनया । अत्र चैव विष्कम्भागति.-योजनपञ्चशतव्यतिक्रमे पञ्चचत्वारिशद्योजनाना पञ्च चैकादश भागा हीयन्ते दशमाहस्या., आगच्छति चैव चतु.पञ्चागदधिकनवनवतिगतानि पड्भागाधिकानि वाद्यो विष्कम्भः, आभ्यन्तरश्च सहस्रोनस्तदेव, उच्यतेऽपि
"नवसहस नवसयाइ चउपण्णा छच्चिगारभागा य ।नंदणवहिविक्खभो सहसूणो होइ मज्झम्मि ॥” इति । तथोपरि ततोऽत्रिषष्टिर्योजनानामतिलडघ्या, तत्र च यदि न सूरिमतमनुश्रीयते, पातव्या एकाशीत्यधिकपटपञ्चाशच्छती नवभागाधिका योजनाना नन्दनवनाभ्यन्तरविष्कम्भश्च ८९५४-६ एतस्मात्पूर्वोक्तपाते सौमनसवाह्यविष्कम्भ.३२७२-८ भागा समागच्छति, आभ्यन्तरस्तु २२७२-८ इत्येतावानेव । न चैष आगमानुरोधीति स्वयमप्युच्यते, सूरिपादानुसरणे तु सार्धेकपञ्चाशत्येव हानिः, तथा च हीयते एकागीत्यधिकषट्चत्वारिंशच्छतानि पूर्वोक्ताभ्यन्तराद्विष्कम्भात्, तथा च शेषमिद द्वासप्तत्यधिकद्वाचत्वारिंशच्छतानि योजनाना भागाश्चाष्टौ, शास्त्रानुरोधि चैतन्मान, यत उच्यतेऽपि
"तब्वाहिरि विक्खभो वायालसयाहि दुसयरिजुयाइ । अट्ठेगारस भागा मज्झे त चेव सहसूणं ।।१।।" इति । एव तत ऊर्ध्वमपि विहायवैकादशयोजनसहस्राणि प्रदेशहानिश्चेद्विवक्ष्यते तदैवाभ्यन्तराद्वात्रिंशच्छतादिरूपात् पञ्चविंशतियोजन इत्येवरूपो भाग. सहस्रसत्को द्वाविंशतिशतानि द्वासप्तत्यधिकानि भागाश्चाष्ट पात्यन्ते, शेष तिष्ठति सहस्रमेक योजनानाम्, तन्नैषा सूरिपद्धति