________________
द्वितीयविगिका
१९१
-
~
~
~
~
-
-
-
-
~
~
-
~
-
-
पित्तहेतुको द्वेष इत्याद्याचख्युः, तन्निरासायतस्यावश्य वाच्यत्वात् । न चैवविधौ रागद्वेषौ स्यातामात्मापकारको, किन्तु यथोदितौ जीवेनासम्बन्धे कथ प्रतिनियतापकारकारित्वमनुभूयमान युज्येत ? कथञ्चनापि सम्बन्धे चात्मना तयोः स्वीक्रियमाणे स्पष्ट एव जीवेन सम्बन्धोऽनयो । युक्तियुक्तश्चायमेव पक्षो, अन्यथा भिन्नस्य मुक्तस्येव कथमस्य ससार्यात्मनोऽपकारको स्यातामेताविति । शुक्राद्यतिरेकश्च कथ वैचित्र्येण सम्पद्यतेति सिद्धयेदेवार्थापत्त्या जीवः, तद्विचित्रतया च कर्म, तद्धेतुकौ च रागद्वेषावित्यल प्रसङ्गेन । यद्वा-भावलोकतया व्याख्येयत्वेन स्पष्ट निर्दिष्टो 'जीवो' जन्तोरिति । असौ किमित्याहुः-'जाणाहि भावलोग"ति । जानीहीति शिष्यावधानाय क्रियानिर्देशः । यद्वा-हेयत्वेन निदिदिक्षवोऽपि रागद्वेपी नव निर्दिष्टौ, धर्मिणोऽहेयत्वात्, धर्मस्य हेयताऽपि च न ज्ञानमन्तरेति जानीहीत्यूचु । भावलोकमिति सज्ञानिर्देशो, जन्तुश्चात्र पूर्वप्रतिपादितावस्थ सज्ञितया ज्ञेय.। सज्ञा चेयमन्वर्था, न तु यादृच्छिकी गुणशून्या वेति तु स्वयमूह्यम् । भावलोकसञ्ज्ञायाः प्रामाण्यनिर्देशायाहु. "अणतजिणदेसिय"ति । तत्र रागद्वेषजेतारो जिना । अनन्तजिनदेशितमिति च जिनाना सर्वेषामविप्रतिपन्नतादशनाय, अन्यथा जिनदेशितत्वमात्रेणैव प्रामाण्यात् । न हि च्छद्मस्थानामिव जिना. परतः प्रामाण्यभावमापन्नवचनवादिनः, अप्रामाण्यहेतुरागद्वेषविलयात् । तयोरसत्यवचोहेतुत्वनियमस्तु 'रागाद्वा द्वेषाद्वे'त्यादिना स्पष्ट एव। केचित्त्वनन्तेत्यत्र लुप्तविभक्तिकनिर्देशमाख्याय भावलोकमित्यनेनैवानन्तमिति योजयन्ति । व्याख्यान्ति च तादृशरागद्वेषपरिकलितजन्तूनामानन्त्यादनन्तो हि भावलोक इति । अनन्तसडख्या च यद्यपि च्छद्मस्थसातिशयज्ञानिजानवेद्या, तथापि जन्तूनामरूपित्वाद् विना केवल प्रत्यक्षाभा