________________
द्वितीयवशिका
१९०
-
इति वचनात् । द्वेषो वा रागमूलक एवेति ज्ञापनाय, इष्टेषु रक्तो हि जन्तुस्तदपकारिषु द्वेष्टि । एतावेव च परमपदप्राप्तिप्रति वन्धकी, ससारेऽपि च सुखकल्पवल्लीकृपाणदु खदावदवकाष्ठकल्पौ । यदुक्त - " को दुक्ख पाविज्जा कस्स व सोक्खेहि विम्हओ होज्जा | को वा न लभिज्ज मुक्ख रागद्दोसा जइ न हुता ||१||" इत्यादि । ननु कथ ज्ञानावरणादीनामुत्कटत्व विहाय मोह एव प्रस्तुत इति चेत् ? साम्परायिको हि ज्ञानावरणीयादीनामाश्रव, स च सकषायस्यैवेत्येव व्यपदेशः । तौ किमित्याहु:- “उइण्ण" त्ति । उदीर्णेविहायाऽबाधावस्थामुदयावस्थमिती । ननु किमिति शेषा बन्धाद्या अवस्था उपेक्षिता इति चेद् ? उदयाधीनत्वाद् वन्धादीनामन्यच्चविहितेऽपि बन्धे यदि विधत्ते क्षयमपि प्रदेशवेदनसङक्रमापवर्त्तनादिना नोदिते इति स एव गृहीत इति । कस्येत्याहु - "जस्स जतुणो "त्ति । यस्य कस्यापि, अनेन सामान्य निर्देशेन वक्तुर्माध्यस्थ्यं ख्यापित भवति । तथाविधादेव वक्तुस्तत्त्वाभिगमसम्भवात् । पठ्यते च"आग्रही वत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ||१|| इति । न हि व्यक्तिविशेषस्यैवापकारको रागद्वेषी, नान्येषामिति पक्षपातो मध्यम्थमनोवृत्तेविदघाति काञ्चन शोभाम्, जैनेन्द्रमत तु निष्पक्षपातम्, आस्ता परेषु पक्षपातवार्ता, यावन्न भगवति जिनेन्द्रेऽपि पक्षपातो [ नैव ] शोभायायिति सिद्धान्तात् । तदुक्त - "न श्रद्धयैव त्वयि पक्षपातो, न द्वेपमात्रादरुचि परेषु । यथावदाप्तत्वपरीक्षया तु, त्वामेव वीर । प्रभुमाश्रिता स्म ॥१॥” इति यस्य कस्यापि कस्येत्युक्त जीवस्येति । न च नार्थोनेन, अजीवस्य तदभावादिति वाच्यम्, अनेन हि ये जीवस्य शुद्धत्वमभिधार्य रागद्वेषौ मायाप्रत्ययौ अविद्याप्रत्ययावनभिसन्धाय जीवसत्ता शुक्रहेतुको राग