________________
द्वितीयविशिका
-
१८९
--.wwwmumm
अ"त्ति । तत्र षट् औदयिकादयो विधा -प्रकारा यस्यासौ षड्विध., नास्त्यन्यो भाव एतेभ्य इत्यन्यूनता सर्वेषामपि पदार्थानामेषु प्रत्यवतारात् । कोऽसावित्याहु -'भावलोक'इति । तत्र भाव इति द्रव्यादिव्यवच्छेदेन शुद्धभावप्ररूपणाज्ञापनाय तथा भावभूतो लोको, विलोकनीयत्वात् पदार्थमात्रस्य वाऽत्रालोकनादन्तर्भावेनेति भावलोको,भावेन वा पर्यायप्राधान्येन भावानुगततया लोको भावलोक । भावा वा-समुदिता लोको भावलोक. । चकारोऽस्यापि द्रव्यादिलोकवद्विवक्षापरत्वसूचक ॥७॥
प्रकारान्तरेण 'भावलोकमेवाहु - . तिव्वो रागो अदोसो य, उइण्णा जस्स जंतुणो।
जाणाहि भावलोग, अणतजिणदेसिअ सम्म ॥८॥
व्याख्या-तत्र तीव्र -उत्कटो मन्दमध्ययोरविवक्षितत्वात्, न पुनरेतावता न तस्य भावलोकता। यद्वा-तीव्रभावस्य लोक्यत्वेन लोकत्वाभिसन्धानात्तस्यैव ग्रहणम् । कोऽसावित्याहु -रागश्चेति, तत्र रज्यतेऽनेनात्मरमणतामात्मस्वभाव वा विहाय परेषु पौद्गलिकेषु स्रक्चन्दनादिष्विति रागो-रागमोहनीय, यन्मायालोभकपायमोहनीयमिति व्यपदिश्यते "मायालोभकषायावित्येतद्रागसज्ञित द्वन्द्व" [प्रशम०] मितिवचनात् । रञ्जन वा राग - प्रीतिलक्षण । चकारस्तत्सहचरितनोकपायनवकस्य तन्निर्वतितप्राणवधादेर्वा परिग्रहाय । तथा द्विष्यतेऽनेन जन्तु कण्टकादिषु दु.खसाधनेषु इति द्वेषो- द्वेपमोहनीयो, यत्क्रोधमानमोहनीयमिति व्यपदिश्यते 'क्रोधो मानश्च पुनष इति समासनिर्दिष्ट' इति । द्वेषण द्वेषोऽप्रीतिलक्षण । चकारोऽत्रापि पूर्ववत् । अत्र प्राग्रागोपादान तस्य दुरुच्छेद्यत्वप्रतिपादनाय 'मुक्खमग्गपवन्नाण सिणेहो वज्जसिंखला। वीरे जीवतए जाओ गोयमो ज न केवली ॥१॥'