________________
द्वितीयविशिका
१८४
~
-
~
-
-
-
-
~
~
-
~
~
-
~
-
-
---
स्त्वभव्यः । अत एव भव्याभव्यसिद्धिक इत्यप्युच्यमान सङ्गच्छत एव। भव्याभव्यत्वगाया एव भव्यत्वनियामकत्वात् नैवाभव्यत्वशङ्काया धर्मप्रवृत्तिविघातकता, प्राप्ताया च सिद्धौ नैवाख्यायते भव्याभव्ययोरन्यतरेण, प्राप्स्यमानत्वाभावात् । प्राप्तत्वाच्चेत् किं न तृतीयो भेद उभयविलक्षणत्वादस्येति । पूर्वप्रज्ञापनीयनयेन तस्य भव्यत्ववत्त्वात् द्रव्यभव्यत्व तत्रापि "भूतस्य भाविनो वा" इत्यादिवचनात् । नोभव्यो नोअभव्य इति तु प्रथमस्य निषेधेन द्वितीयस्यापत्ति ससारिषु द्वयो परस्परपरिहारेणावस्थानाच्छक्येत केनचिदिति द्वितीयमपि न्यषेधि । तथा च तेन न भावान्तर व्याख्येयम् । तथा भव्यत्व चापि भव्यत्वविशेष एवेति न तदपि भिन्नम् । तथा च भव्यत्वमभव्यत्व चेति द्वयमेव । 'आदीनीति बहुवचनान्तादिशब्दोऽत्र । तत्रादिना जीवस्य सामान्यपारिणामिका भावाः सूचिता । के ते? इति चेदाहु -अस्तित्व अन्यत्व कर्तृत्व भोक्तृत्व गुणवत्त्वमसर्वगतत्वमनादिकर्मसन्तानवद्धत्व प्रदेशवत्त्वमरूपत्वं नित्यत्वमित्येवमादयः। ननु च किमिति सम्यकत्वादय कण्ठत उक्ता अस्तित्वादयश्चादिशब्देन सूचिता ? इति चेत्, सम्यक्त्वादीना वैशेषिकत्वात् अस्तित्वादीना च सामान्यत्वात्। केन समानतेति चेद्, धर्मादिनाऽजीवेनेति गृह णीत। नन्वस्त्वन्येपा धर्मादिभि समानत्वमस्तित्वादीना, पर कर्तृत्वभोक्तृत्वानादिकर्मसन्तानवद्धत्वाना कथ तत् ?। यतो न हि धर्मादीना तानीति चेद्, अपेक्षया तेषामपि तानि । यत स्वपर्यायाद्यपेक्षया कर्तृत्वभोक्तृत्वे कर्मसन्तत्युपग्रहादिना च कर्मसन्तानवद्धत्वम्, अन्यथा वा यथागम परिभावनीयानि। बहुवचनेन चादिगन्दोत्तरेणाजीवत्वादय सूचिताः। अजीवत्वपि पारिणामिकमेव । यतो न हि वर्तमानजीवत्वस्य भविष्यदजीवत्वमस्ति, येनाजीवत्व न भवेत् स्वाभाविकम् । एवं